________________
सूत्र १-२-३
६२ .
प्रमाण कृतकत्वं श्रावणत्वं वा । ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः। विपर्यये बाधकप्रमाणबलात् सत्त्वस्येवेति ब्रूमः । न चैवं सत्त्वमेव हेतुः । तद्विशेषस्योत्पत्तिमत्त्वकृतकत्वप्रयत्नानन्तरीयकत्वप्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः। किं च किमिदमसाधारणत्वं नाम । यदि पक्ष एव वर्तमानत्वं तत्सर्वस्मिन् क्षाणके साध्ये सत्त्वस्यापि समानम् । साध्यधर्मवतः पक्षस्यापि सपक्षता चेत् । इह कः प्रद्वेषः । पक्षादन्यस्यैव सपक्षत्वे लोहलेख्यं वज्रं पार्थिवत्वाकाष्ठवदित्यत्र पार्थिवत्वमाप लोहलेख्यता वने गमयेत् । अन्यथानुपपत्तेरभावान्नोत चेत् । इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत् । अस्तु यद्यविनाभावोऽस्ति शकटोदये कृत्तिकोदयस्य सर्वज्ञसद्भावे संवादिनं उपदेशस्य गमकत्वदर्शनात् । काकस्य कायं न प्रासादे धावल्यं विनानुपपद्यमानमित्यनेकान्तादगमकम् । तथा घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । तत्र श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरत । ननु कृतकत्वाच्छब्दस्यानित्यवे साध्ये पर्यायवद्रव्येऽप्यानत्यता प्राप्नोति । नेयम् । पर्यायाणामेवानित्यतायाःसाध्यत्वात् । अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म विस्मरति भवान् । ननु कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत्साध्यस्य सिद्धत्वं, साध्यवच्च साधनस्य साध्यत्वं प्रसज्जति । सत्यमेतत् । किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह "सादेरपि न सान्तत्वं व्यामोहाद्योऽ धिगच्छति । साध्यसाधनतैकस्य तंप्रति स्यान्नदोषभाक् ॥ कारणं यथा, वाष्पभावेन मशवर्तिरूपतया वा सन्दिह्यमाने धृमेऽग्निविशिष्टमेघोन्नतिर्वा ,ष्टौ कथमयमाबालगोपालाविपालाङ्गनादिप्रासि
१ 'नतु ' इति क्वचित्पाठः । २ 'करणं ' इति क्वचित्पाठः । ३ ' वृष्टयै' इति क्वचित्पाठः ।