SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] ६१ सूत्र १-२-१२ ॥ सहक्रमभाविनोः सहक्रमभावनियमो ऽविनाभावः ॥ १-२- १० ॥ सहभाविनोरेकसामग्र्यधीनयोः फलादिगतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोः क्रमभाविनोः कृत्तिकोदयशकटोदययोः कार्यकारणयोर्धूमधूमध्वजयोर्यथासंख्यं य: सहक्रमभावनियमः सहभाविनोः सहभावनियमः क्रमभाविनोः क्रमभावनियमः साध्यसाधनयोरिति प्रकरणाल्लभ्यते सोऽविनाभावः ।। १०॥ अथैवंविधोऽविनाभावो निश्चितः साध्यप्रतिपत्त्यङ्गमित्युक्तम् । तनिश्चयश्च कुतः प्रमाणात् । न तावत् प्रत्यक्षात् तस्यैन्द्रियकस्य सनिहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्वविषयं तथापीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः । अन्यथान्धवधिराद्यभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतिपत्तिरेपि ततोsस्तु । किं तपस्विनाऽनुमानेन । अनुमानात्त्वविनाभावनिश्चयेऽनवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेवंविधविषयग्रहणप्रवणमस्तीत्याह ॥ ऊहात्तन्निश्वयः ॥ १-२-११ ॥ ऊहात्तर्कादुक्तलक्षणात्तस्याविनाभावस्य निश्चयः ॥ ११ ॥ लक्षितं परीक्षितं च साधनमिदानीं तद्विभजति — ॥ स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥ १-२-१२ ॥ स्वभावादीनि चत्वारि विधेः साधनानि । विशोध तु निषेधस्येति पञ्चविधं साधनम् । स्वभावो यथा शब्दानित्यत्वे साध्ये १ रेवेति पाठः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy