SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र २-१-३३ असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात् । न ह्यन्यायेन जयं यशो धनं वा महात्मानः समीहन्ते । अथ प्रबलमातवादिदर्शनात् तज्जये धर्मध्वंससम्भावनातः प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैपि पांशुभिरिवावकिरन्नेकान्तपराजयादरं सन्देह इति धिया न दोषमावहतीति चेत् । न । अस्यापवादिकस्य जात्युत्तरमयोगस्य कथान्तरसमर्थनसामर्थ्याभावात् वाद एव । द्रव्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथंचन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत । तस्माज्जल्पवितण्डा निराकरणेन वाद एवैकः कथाप्रथां लभत इति स्थितम् ॥ ३०॥ वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाह ॥ स्वपक्षस्य सिद्धिर्जयः॥२-१-३१॥ वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः। सा च स्वपक्षसाधनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च भवति। स्वपक्षे साधनमब्रुवन्नपि प्रतिवादी वादिसाधनस्य विरुद्धतामुद्भावयन् वादिन जयति । विरुद्धृतोद्भावनेनैव स्वपक्षे साधनस्योक्तत्वात् । यदाह “विरुद्धहेतुमुद्भाव्य वादिनं जयतीतरः" इति ॥३१॥ ॥ असिद्धिः पराजयः ॥२-१-३२॥ वादिनः प्रतिवादिनो वा या स्वपक्षस्यासिद्धिः सा पराजयः । सा च साधनाभासाभिधानात् सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥३२॥ ननु यद्यसिद्धिः पराजयः स तर्हि कीदृशो निग्रहो निग्रहान्ता हि कथा भवतीत्याह - ॥ सनिग्रहो वादिप्रतिवादिनोः ॥२-१-३३॥ १ श्रीपदकलङ्कः ( ग्रन्थकृत् )
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy