SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-२-३ . "कालमसंखं संखं च धारणा होइ नायव्वा” इति वचनाचिरकालस्थायिन्याप वासनाऽनुद्बुद्धा न स्मृतिहेतुः । आवरणक्षयोपशमसदृशदर्शनादिसामग्रीलब्धप्रबोधा तु स्मृतिं जनयतीति वासनोद्बोधहेतुकेत्युक्तम् । अस्या उल्लेखमाह तदित्याकारा सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः सा पटी तत्कुण्डलमित्युल्लेखवती मतिः स्मृतिः । सा च प्रमाणम् । अविसंवादित्वात् । स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावानिरालम्बना स्मृतिः कथं प्रमाणम् । नैवम् । अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूताविषयत्वादप्रामाण्यं प्रसज्येत । स्वविषयावभासनं स्मृतरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकस्तथाचार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत् । तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्वमविसंवादहेतुरिति विप्रलब्धोऽसि । मैवं मुहः । यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादिभिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्धजन्म संवेदनं विषयमवभासयति । नाननुकृतान्वयव्यतिरेकं कारणं, नाकारणं विषय इति तु प्रलापमात्रम् । योगिज्ञानस्पतीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किं च स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः। तया व्याप्तेरविषयीकरणे तदुत्थानायोगात् । लिङ्गग्रहणसम्बन्धस्मर १ अस्याः पूर्वार्धम्-' उग्गहो एक्कं समयं ईहा-वाया मुहुत्तमंतं ( मद्धं ) तु'। विशेषावश्यकगाथा ३३३ । संस्कृतछाया-अवग्रह एकं समयमीहाऽपायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ॥ ३३३ ॥ २ तु स्मृतिमित्यत्र- अनुस्मृतिम् ' इति पाठः३ अत्र कुण्डमिति क्वचित्पाठः । ४ क्वचित् ' मतिः ' इति नास्ति ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy