________________
सूत्र १-२-१
५०
[ प्रमाण
इहोद्दिष्टे प्रत्यक्ष परोक्षलक्षणे प्रमाणद्वये लाक्षतं प्रत्यक्षम् । इदानीं
परोक्षलक्षणमाह
॥ अविशदः परोक्षम् ॥ १-२-१॥
सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णय इत्यनुवर्तते । तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥१॥ विभागमाह
॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः
॥ १-२-२ ॥ तादति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमाणान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् । ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते किमनेन द्रविडेमण्डकभक्षणन्यायेन । मैवं वोचः । परोक्षलक्षणसङ्ग्रहीतानि परोक्षप्रमाणान्न विभेदवर्तानि । यथैव हि प्रत्यक्षलक्षणसङ्ग्रहीT तानीन्द्रियज्ञानमानसस्वसंवेदनयोगिज्ञानानि सौगतानां न प्रत्यक्षादतिरिच्यन्ते । तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न मूलप्रमाणसङ्ख्यापरिपन्थीनी इति स्मृत्यादीनां पञ्चानां द्वन्द्वः ॥ २ ॥ तत्र स्मृतिं लक्षयति—
॥ वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥ १-२-३ ॥ वासना संस्कारस्तस्या उद्बोधः प्रबोधस्तद्धेतुका तन्निबन्धना
१ द्रविडदेशस्था हि सर्वमन्नमेकीकृत्य भुञ्जते सुरसान्नं मण्डकमपि तत्रैव मिश्रयन्ति तेन मण्डस् स्वरुचिविघातस्तद्वदित्यर्थः ।