________________
मीमांसा ]
४९
सूत्र १-१-४३ ॥स्वपराभासी परिणाम्यात्मा प्रमाता॥ १-१-४३॥
स्वमात्मानं परं चार्थमाभासयितुं शीलं यस्य स स्वपराभासी स्वोन्मुखतयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तृक्रियाणां प्रतीतेः । अन्यतरप्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीपवत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्तस्वाभासिपराभासिवादिमतनिरासः। स्वपराभास्येवात्मा प्रमाता । तथा परिणाम उक्तलक्षणः स विद्यते यस्य स परिणामी । कूटस्थनित्ये ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम् । स्मृतिप्रत्यभिज्ञाननिहितप्रत्युन्मार्गणप्रभृतयश्च प्रतिप्राणि प्रतीताव्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययध्रौव्यधर्मण्यात्मनि सर्वमुपपद्यते । यदाहुः “ यथाहेः कुण्डलावस्था व्यपैति तद्नन्तरम् । सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥ तथैव नित्यचैतन्यस्वरूपस्यात्मनो हि न । निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ किं त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः । अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवतेते ॥ स्यातामत्यन्तनाशे हि कृतनाशाकृतागमौ । सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ न च कर्तृत्वभोतत्वे पुंसोऽवस्थांसमाश्रिते।ततोऽवस्थावतस्तत्त्वात् कतैवाप्नोति तत्फलम्" इति अनेकान्तनित्यानित्यवादव्युदासः। आत्मेत्यनात्मवादिनो व्युदस्यति । कायप्रमाणता त्वात्मनः प्रकृतानुपयोगानोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तवृत्तेश्च प्रथमस्याध्यायस्य प्रथममाह्निकम् ॥
प्रथमस्य प्रथमाह्निकम् ॥
. १ कूटं गिरिशृङ्गं तदिवतिष्ठतीति ।।