________________
सूत्र १-१-४०
[प्रमाण फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम्। ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाणफलविभाग इति ॥ ४० ॥ फलान्तरमाह
॥ हानादिबुद्धयो वा ॥ १-१-४१॥ हानोपादानोपेक्षाबुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां फलत्वेन न विरोधो वैवक्षिकत्वात् फलस्येति प्रतिपादनार्थम् ॥ ४१॥ एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह
॥ प्रमाणाद्भिन्नाभिन्नम् ॥ १-१-४२॥ करणरूपत्वात् क्रियारूपत्वाच्च प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेदव्यवहारानुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणायावृत्त्या प्रमाणव्यवहारः, अफलाघ्यावृत्त्या च फलव्यवहारो भाविष्यतीति चेत् । नैवम् । एवं सति प्रमाणान्तराठ्यावृत्त्याऽप्रमाणव्यवहारः, फलान्तराद्व्यावृत्त्याऽफलत्वव्यवहारोऽप्यस्तु विजातीयादिव सजातीयादपि व्यावृत्तत्वाद्वस्तुनः । तथा तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । भेदे त्वात्मान्तरवत्तदनुपपत्तिः । अथ यत्रैवात्मान प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासत्त्या प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत् । न । समवायस्य नित्यत्वाव्यापकत्वानियतात्मवत्सर्वात्मस्वप्याविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत्सिद्धमेतत् प्रमाणात्फलं कथञ्चिद्भिन्नमभिन्नं चति ॥ ४२ ॥
प्रमातारं कथयति