________________
मीमांसा ]
सूत्र १-१-४० कथमस्य प्रमाणत्वं करणं हि तत् । साधकतमं च करणमुच्यते । अव्यवहितफलं तदित्याह॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ १-१-३८॥ तस्यामिति कर्तृस्थायां प्रमाणरूपायां क्रियायां सत्यामर्थप्रकाशस्य फलस्य सिद्धेर्व्यवस्थापनात् एकज्ञानगतत्वेन प्रमाणफलयोरभेदो व्यवस्थाप्यव्यवस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतात प्रमाणफलभाव इतीदमाखिल प्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३८ ॥ अव्यवहितमेव फलान्तरमाह
॥अज्ञाननिवृचिर्वा ॥ १-१-३९ ॥ प्रमाणप्रवृत्तेः पूर्व प्रमातुर्विक्षिते विषये यदज्ञानं तस्य निवृत्तिः फलमित्यन्ये । यदाहुः "प्रेमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः॥" इति ॥ ३९॥
व्यवहितमाह॥ अवग्रहादीनां वा क्रमापेक्षजननधर्माणां पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं फलम् ॥ १-१-४०॥
अवग्रहहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां यद्यत् पूर्व तत्तत्प्रमाणं यद्यदुत्तर तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा ईहारूपफलतया परिणमति । इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधारणयोोनोपादानत्वात् ज्ञानरूपत्तोनेया । ततो धारणा प्रमाणं स्मृतिः १ न्यायावतारश्लोक २८ ।