________________
सूत्र १-१-३४
४६
[ प्रमाण
स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु । तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परामुपजीवतो भिन्नाभिन्नोपकारादिनोदनानुमोदनाप्रभुदितात्मन: उभयपक्षभाविदोषशङ्काकलङ्काकन्दिशीकस्य भावस्य न व्यापकानुपलब्धिबलेनार्थक्रियाया, नापि तद्व्याप्यस्य सत्त्वस्य निवृत्तिरिति सिद्धम् । द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः ॥३४॥
फलमाह
॥ फलमर्थप्रकाशः ॥ १-१-३५॥
प्रमाणस्येति वर्तते प्रमाणस्य फलमर्थप्रकाशोऽर्थसंवेदनम् । अर्थार्थी हि सर्वः प्रमातेत्यर्थसंवेदनमेव फलं युक्तम् । नन्वैवं प्रमाणमेव फलत्वेनोक्तं स्यात् । ओमिति चेत् तर्हि प्रमाणफलयोरभेदः । स्यात् । ततः किं स्यात् । प्रमाणफलयोरैक्ये सदसत्पक्षभावी दोषः स्यात् । नासतः करणत्वं न सतः फलत्वम् । सत्यमस्त्ययं दोषो जन्मनि न व्यवस्थायाम् यदाहुः । “नासतो हेतुता नापि सतो हेतोः फलात्मता । इति जन्मनि दोषः स्याद्व्यवस्था तु न दोषभागू " ॥ १ ॥ इति ॥ ३५ ॥
व्यवस्थामेव दर्शयति—
॥ कर्मस्था क्रिया ॥ १-१-३६॥ कर्मोन्मुखो ज्ञानव्यापारः फलम् ॥ ३६ ॥ प्रमाणं किमित्याह -
॥ कर्तृस्था प्रमाणम् ॥ १-१-३७॥ कर्तृव्यापारमुल्लिखन् बोधः प्रमाणम् ॥ ३७ ॥
१ " कान्दिशीको भयद्रुते " इति ( अभिधानचिन्तामणिः ) ३ - ३० । २ ओमित्यङ्गीकारे । अङ्गीक्रियते चेदित्यर्थः ।