________________
मीमांसा ]
सूत्र १-१-३४
द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः । एकानेकात्मकत्वाद्वस्तुनः । यौ च सङ्करव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहृतौ । अथ तत्र तथाप्रतिभास: समाधानं परस्यापि तदेवास्तु प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः तस्य सकम्पप्रतिपत्तौ दुर्घटत्वात् प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यात्मकं वस्त्विति ॥ ३३ ॥
ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम । सा हि क्रमाक्रमाभ्यां व्याप्ता । द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्त - ताम् । शक्यं हि वक्तुमुभयात्मा भावो न क्रमेणार्थक्रियां कर्तुं समर्थः । समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा युक्ता । द्रव्यस्यापि कार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणात् । नाप्यक्रमेण युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थक्रियाकारित्वादसत्त्वं कुर्वतः क्रमपक्षभावी दोषः । द्रव्यपर्यायवादयोश्च यो दोषः स उभयवादेऽपि समानः । “ प्रत्येकं यो भवेद्दोषो द्वयोर्भावे कथं न सः । " इति वचनादित्याह -
४५
॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः ॥ १-१-३४ ॥ पूर्वोत्तरयोराकारयोर्विवर्तयोर्यथासङ्घयेन यौ परिहारस्वीकारौ ताभ्यां स्थितिः सैव लक्षणं यस्य स चासौ परिणामश्च । एतेनास्य द्रव्यपर्यायात्मकस्यार्थक्रियोपपद्यते अयमर्थः । न द्रव्यरूपं न पर्यायरूपं नोभयरूपं वस्तु । येन तत्तत्पक्षभावी दोषः स्यात् । किं तु
१ दृष्टेइष्टाविरुद्धं दृष्टं च तत् इष्टं च तदविरुद्धं चेति विशेषणत्रयात्मकः कर्मधारयः । २ काल विलम्बाभावात् ।