________________
सूत्र १-१-३३
[ प्रमाण
विशेषैः पृथिव्यप्तेजोवायूनां, पृथिवीत्वादिभिराकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं सर्वमभिधानीयम् । एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था । ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम् । तथाहि द्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते । न चासौ युक्तो विरोधादिदोषात् । विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवान्नीलानीलवत् । १ अथ केनचिद्रूपेण भेदः केनचिदभेदः । एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् । २ यं वात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्ताप्यात्मानौ भिन्नाभिन्नावन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ येन च रूपेण भेदस्तेन भेदाभेदश्च येन चाभेदस्तेनाप्यभेदश्व भेद सङ्करः । ४ येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः । ५ भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशयः । ६ ततश्चाप्रतिपत्तिरिति न विषयव्यवस्था । नैवम् । प्रतीयमाने वस्तुनि विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते । उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः | नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः । एकत्र चित्रपटीज्ञाने सौगतैनीलानीलयोर्विरोधाभ्युपगमात्, योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात् एकस्यैव पटादेश्वलाचलरक्तारक्तावृतानानृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाशः । एतेन वैयाधिकरण्यदोषोऽप्यपास्तः । तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम् । तदप्यनेकान्तवादिमतानभिज्ञेनैव तन्मतम् । द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिका तयोरेवाभिधानात्
१ नैयायिकमते ।
४४