________________
सूत्र १-२-३ - ५२
[ प्रमाण णपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणमनुमानप्रामाण्यान्यथानुपपत्तोति सिद्धम् ॥ ३॥
अथ प्रत्यभिज्ञानं लक्षयति॥दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥ १-२-४॥ - दर्शनं प्रत्यक्षं, स्मरणं स्मृतिस्ताभ्यां सम्भवो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । तस्योल्लेखमाह तदेवेदं सामान्यनिर्देशेन नपुंसकत्वं स एवायं घटः सैवेयं पटी तदेवेदं कुण्डमिति तत्सदृशः गोसदृशो गवयः तद्विलक्षणो गोविलक्षणो महिषः तत्प्रतियोगी इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । आदिग्रहणात् " रोमशोदन्तुरः श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः॥ पयोम्बुभेदी हंसः स्याषट्पदैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी। युवतिश्चैकशृंगोऽपि गण्डकः परिकीर्तितः॥" इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथा वचनं सत्यापयति यदा तदा तदपि सङ्कलनमुक्तम् । दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येन क्रमेलकं निन्दतोक्तं धिक्करभमतिदीर्घवऋग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमयमर्थोऽस्य करभशब्दस्यति तदपि दर्शनस्मरणकारणकत्वात् सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । येषां तु सादृश्यविषयमुपमानाख्यं
१ - सिद्धम् ' इति क्वचित्पुस्तके नास्ति । २ — वचनं ' क्वचित्पुस्तके नास्ति । .. .