________________
मीमांसा ]
सूत्र १-२-३ प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत । यदाहुः "उपमानं प्रसिद्धार्थसाधर्म्यात् साध्यसाधनम् । तद्वैध
ात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम्॥इदमल्पं महदरमासन्नं प्रांशु नेति वा । व्यपेक्षातःसमक्षेऽर्थे विकल्पः साधनान्तरम्" । इति । अथ साधर्म्यमुपलक्षणं योगविभागो वा करिष्यत इति चेत् । तद्यकुशलः सूत्रकारः स्यात् । सूत्रस्य लक्षणरहितत्वात् , यदाहुः अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः"। अस्तोभमनधिकम् । ननु तदिति स्मरणमिदमित प्रत्यक्षमिति ज्ञानद्वयमेव न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम् । स्मरणप्रत्यक्षाभ्यां प्रत्याभज्ञाविषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पूर्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य विषयः। न च तत्स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहुः " पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः। स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणी ॥१॥" नापि प्रत्यक्षस्य । तस्य विवर्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्यामन्यद ज्ञानं नास्ति । दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानुभूयमानस्यापलापो युक्तः। अतिप्रसङ्गात् । ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानमित्येके। नैवम् । तस्य सन्निहितवार्तमानिकाविषयत्वात् “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः। अथ स्मरणसहकृतमिन्द्रियं तदेक
१ प्रवृत्तेति क्वचित्पाठः। २ ' प्रत्यक्षे गोचरस्तस्य । वर्तमानविवर्तमात्रवृत्तित्वात् ' । इति क्वचित्पाठः । ३ मीमांसाश्लोकवार्तिकसूत्र ४ श्लोक ८४ । ..