________________
सूत्र १-२-४ ५४
[प्रमाण त्वविषयं प्रत्यक्षमुपजनयतीति प्रत्यक्षरूपतास्य गीयत इति चेत् । न । स्वविषयविनियमितमूर्तोरिन्द्रियस्य विषयान्तरेऽसहकारित्वात् समवधानेऽप्यप्रवृत्तेः । नहि परिमलस्मरणसहायमाप चक्षुरिन्द्रियमविषये गन्धादौ प्रवर्त्तते अविषयश्चातीतवर्तमानावस्थाव्याप्येकं द्रव्यमिन्द्रियाणाम् । नाप्यदृष्टसहकारिसहितामिन्द्रियमकत्वाविषयामिति वक्तुं युक्तम् । उक्तादेव हेतोः । किं चादृष्टसव्यपेक्षादेवात्मनस्तद्विज्ञानं भवतीति वरं वक्तुं युक्तम् । दृश्यते हि स्वमविद्यासंस्कृतादात्मनो विषयान्तरेऽपि विशिष्टज्ञानोत्पत्तिः । ननु यथाञ्जनादिसंस्कृतं चक्षुः सातिशयं भवति तथा स्मरणसहकृतमेकत्वविषयं भविष्यति । नैवम् । इन्द्रियस्य स्वविषयानतिलङ्घनेनैवातिशयोपलब्धेर्न विषयान्तरग्रहणरूपेण । यदाह भट्टः " यंत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिताः" ॥ इति तत् स्थितमेतत् विषयभेदात्प्रत्यक्षादन्यत्परोक्षान्तर्गतं प्रत्यभिज्ञानमिति । न चैतदप्रमाणम् । विसंवादाभावात् कचिद्विसंवादादप्रामाण्ये प्रत्यक्षस्यापि तथा प्रसङ्गो दुर्निवारः। प्रत्यभिज्ञानपरिच्छिन्नस्य चात्मादीनामेकत्वस्याभावे बन्धमोक्षव्यवस्था नोपपद्यते । एकस्यैव हि बद्धत्वे मुक्तत्वे सैति च बद्धो दुःखितमात्मानं जानन् मुक्तिसुखार्थी प्रयतेत । भेदे त्वन्य एव दुःख्यन्य एव मुखीति कः किमर्थ वा प्रयतेत । तस्मात्सकलस्य दृष्टव्यवहारस्यैक
१ ' विषयान्तरेऽसहकारिशतं ' इति क्वचित्पाठः । २ मीमांसाश्लोकवार्त्तिक सूत्र २ श्लोक ११४ । ३ क्वचित् ' सति' इति नास्ति । ४ ' तत् प्रयतते' इति क्वचित्पाठः । . ५ ' दृष्टादृष्ट ' इति क्वचित्पाठः ।