________________
मीमांसा ]
सूत्र १-२-५ त्वमूलत्वादेकत्वस्य च प्रत्यभिज्ञायत्तजीवनत्वाद्भवति प्रत्याभिज्ञा प्रमाणमिति ॥४॥ अथोहस्य लक्षणमाह॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः
॥१-२-५॥ उपलम्भः प्रमाणमात्रमत्र गृह्यते । न प्रत्यक्षमेव । अनुमेयस्यापि साधनस्य सम्भवात् । प्रत्यक्षवदनुमेयेष्वपि व्याप्तेरविरोधात् । व्याप्तिर्वक्ष्यमाणा तस्या ज्ञानं तद्ग्राही निर्णयविशेष ऊहः। न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम् । नहि प्रत्यक्षं यावान् कश्चिद्धमः स देशान्तरे पावकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तुं समर्थम् । सन्निहितविषयबलोत्पत्तेरविचारकत्वाच । नाप्यनुमानात् । तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्येवंभूतभारासमर्थत्वात् । सामर्थेऽपि प्रकृतमेवानुमानं ब्याप्तिग्राहकमनुमानान्तरं वा । तत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरेतराश्रयः । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरात्तु व्याप्तिप्रतिपत्तावनवस्था । तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् । तद्व्याप्तिग्रहश्च यदि स्वत एव तदा पूर्वेण किमपराद्धं येनानुमानान्तरं मृग्यते । अनुमानान्तरेण चेत्तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः । ननु याद निर्विकल्पकं प्रत्यक्षमाविचारकम् । तर्हि तत्पृष्ठभावी विकल्पो व्याप्तिं ग्रहीष्यतीत चेत् । नैतत् निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात् । निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य । अथ निर्विकल्पविषयनिरपेक्षोऽ १ ' जीवितत्वात् ' इति पाठः ।