SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूत्र १-२-५ ५६ [ प्रमाण र्थान्तरगोचरो विकल्पः तर्हि स प्रमाणमप्रमाणं वा । प्रमाणत्वे न प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्डात्तनयदोहदः। एतेनानुपलम्भाच्च कार्यकारणव्याप्यव्यापकभावावगम इति प्रत्युक्तम् । अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्गत्वेन तज्जनितस्य तस्यानुमानत्वात् । प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणदोषस्याभिहितत्वात् । वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्यातिप्रतिपत्तिरित्याहुः। तेषामप्यध्यक्षफलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम् । तदन्यत्वे च प्रमाणान्तरत्वप्रसक्तिः। अथ व्याप्तिविकल्पस्य फलत्वान्न प्रमाणत्वमनुयोक्तुं युक्तम् । नैतत् । फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति । यौगास्तु 'तर्कसहितात्प्रत्याक्षादेव व्याप्तिग्रह' इत्याहुः। तेषामपि यदि न केवलात् प्रत्यक्षाव्याप्तिग्रहः । किं तु तर्कसहकृतात्तर्हि तर्कादेव व्याप्तिग्रहोऽस्तु । किमस्य तपस्विनो यशोमार्जनेन , प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति । अथ तर्कः प्रमाणं न भवति न ततो व्याप्तिग्रहणमिष्यते । कुतः पुनरस्य न प्रमाणत्वमव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येव । व्याप्तिलक्षणेन विषयेण विषयवत्वमपि न।नास्ति तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः ॥ ५॥ व्याप्तिं लक्षयात॥ व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥ १-२-६॥ १ ' फलस्याप्यनुमान ' इति क्वचित्पाठः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy