________________
मीमांसा 1
५७
व्याप्तिरिति यो व्यामोति यश्व व्याप्यते तयोरुभयोर्धर्मः । तत्र यदा व्यापकधर्मतया विवक्ष्यते तदा व्यापकस्य गम्यस्य व्याप्ये धर्मे सति तत्र धर्मिणि व्याप्यमस्ति यत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षया व्याप्यस्यैव व्याप्यताप्रतीतिः । नन्वेवमवधार्यते व्यापकस्यैव व्याप्ये सति भाव इति हेत्वभावप्रसङ्गात् अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि व्याप्ये सत्येवेत्यवधार्यते । प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः । साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् । यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति यत्र धर्मिणि व्यापकोऽस्ति तत्रैव भावो न तदभावेऽपि व्याप्तिरिति । अत्रापि नैवमवधार्यते व्याप्यस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गादव्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः साधारणस्य च हेतुत्वं स्यात् प्रमेयत्वस्य नित्येष्ववश्यंभावादिति । व्याप्यव्यापकधर्मतासङ्कीर्तनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिर्मा भूदिति प्रदर्शनार्थम् । तथाहि पूर्वत्रायोगव्यवच्छेदेनावधारणमुत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः । तदुक्तम् “ लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः " । इति ॥ ६ ॥
अथ क्रमप्राप्तमनुमानं लक्षयति
॥ साधनात्साध्य विज्ञानमनुमानम् ॥१-२-७ ॥
साधनं साध्यं च वक्ष्यमाणलक्षणं दृष्टादुपदिष्टाद्वा । साधनाद्यत्साध्यस्य विज्ञानं सम्यगर्थनिर्णयात्मकं तदनुमीयतेऽनेनेत्यनुमानं लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चात्परिच्छेदनम् ॥ ७ ॥