________________
सूत्र १-२-८
५८
[ प्रमाण
॥ तद्विविधा स्वार्थं परार्थं च ॥ १-२-८ ॥ तदनुमानं द्विप्रकारं स्वार्थपरार्थभेदात् । स्वव्यामोहनिवर्तनक्षमं स्वार्थम् | परव्यामोहनिवर्तनक्षमं परार्थम् ॥ ८ ॥
तत्र स्वार्थं लक्षयति
॥ स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ॥ १-२-९॥
साध्यं विनाऽभवनं साध्याविनाभावः स्वेनात्मना निश्चितं साध्याविनाभाव एवैकं लक्षणं यस्य तत् स्वनिश्चितसाध्याविनाभावैकलक्षणं तस्मात्तथाविधात् साधनालिङ्गात् साध्यस्य लिङ्गिनो ज्ञानं स्वार्थमनुमानम् । इह च न योग्यतया लिङ्गं परोक्षार्थप्रतिपत्तेरङ्गम् । यथा बीजमङ्करस्य । अदृष्टाद्धूमादग्नेरप्रतिपत्तेः । नापि स्वनिश्चयज्ञानापेक्षं यथा प्रदीपो घटादेः । दृष्टादस्य निश्चिताविनाभावादप्रतिपत्तेः । तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य व्यापार इति निश्चितग्रहणम् । ननु चासिद्धविरुद्धानैकान्तिक हेत्वाभासनिराकरणार्थं हेतोः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्तिरिति त्रैलक्षण्यमाचक्षते भिक्षवः । तथा ह्यनुमेये धर्मिणि लिङ्गस्य सत्त्वमेव निश्चितमित्येकं रूपम् अत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम् । एवकारेण पक्षैकदेशासिद्धो निरस्तो यथा अनित्यानि पृथिव्यादीनि भूतानि गन्धवत्वात् । अत्र पक्षीकृतेषु पृथिव्यादिषु चतुर्षु भूतेषु पृथिव्यामेव गन्धवत्वं सत्त्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमित्युच्येत श्रावणमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः सपक्षे एव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स हि नास्ति सपक्षे एवकारेण साधा