________________
सूत्र १-१-२
[प्रमाण तेन सम्यग् योऽर्थनिर्णय इति विशेषणाद्विपर्ययनिरासः । ततोऽतिव्याप्त्यव्याप्त्यसम्भवदोषविकलमिदं प्रमाणसामान्यलक्षणम् ॥२॥
नन्वर्थनिर्णयवत्स्वनिर्णयोऽपि वृद्धैः प्रमाणलक्षणत्वेनोक्तःप्रमाणं स्वपरावभासीति । स्वार्थव्यवसायात्मकं प्रमाणमिति च। न चासावसन् । घटमहं जानामीत्यादौ कर्तृकर्मवज जप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिद्धयति । न च ज्ञानान्तरात् तदुपलम्भसम्भावनम् । तस्यानुपलब्धस्य प्रस्तुतोपलम्भ
प्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थो। पलम्भात्तस्योपलम्भेऽन्योन्याश्रयदोषः । एतेनार्थस्य सम्भवो
नोपपद्यते न चैतज् ज्ञानं स्यात् इत्यर्थापत्त्यापि तदुपलम्भः प्रत्युक्तः। तस्या अपि ज्ञापकत्वेऽनाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेस्तदवस्थः परिभवः । तस्मादर्थोन्मुखतयेव स्वोन्मुखतयापि ज्ञानस्य प्रतिभासात् स्वनिर्णयात्मकत्वमप्यस्ति । नन्वनुभूतरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः । मैवं वोचः । ज्ञातुर्ज्ञातृत्वेनेवाऽनुभूतेरनुभूतित्वेनैवानुभवात् । न चानुभूतेरनुभाव्यत्वं दोषः । अर्थापेक्षयानुभूतित्वात्, स्वापेक्षयाऽनु१ अर्थस्य निर्णयोऽर्थनिर्णयः सम्यक् चासौ अर्थनिर्णयश्च ।
२ अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यभिन्नमलक्ष्यं तत्र लक्षणसत्त्वम् । शृङ्गित्वं लक्ष्यभिन्नमहिण्यादिषु वर्तते । अतस्तदतिव्याप्तम् ।
३ लक्ष्यैकदेशावृत्तित्वमव्यातिः । यथा गोः कपिलत्वम् । लक्ष्यस्यैकदेशे लक्षणस्यासत्त्वम् । प्रकृते लक्ष्या गावः । तदेकदेशः शुक्ला गावः । तत्र कपिलत्वस्यासत्त्वादव्याप्तिः ।
४ लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफवत्त्वम् । कस्मिन्नपि लक्ष्ये लक्षणासत्त्वम् । एकशफवत्त्वं न कस्यामपि गवि वर्तते । अतस्तदसम्भवदोषदूषितम् ।)
प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्रयात् ।। श्रीसिद्धसेनदिवाकरप्रणीत न्यायावतार श्लोकः १ ।