SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] ५ सूत्र १-१-२ ॥ सम्यगर्थनिर्णयः प्रमाणम् ॥ १-१-२॥ प्रमाणमिति लक्ष्यनिर्देशः। शेष लक्षणम् । प्रसिद्धानुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थः । तत्र यत्तदविवादेन प्रमाणमिति धम्मि प्रसिद्धं तस्य सम्यगनिर्णयात्मकत्वं धर्मो विधीयते । अत्र प्रमाणत्वादिति हेतुः । नच धम्मिणो हेतुत्वमनुपपन्नम्, भवति हि विशेषे धम्मिणि तत् सामान्यं हेतुर्यथाऽयं धूमः सानिर्द्धमत्वात पूर्वोपलब्ध- ६ धूमवत् । न च दृष्टान्तमन्तरेण नगमकत्वम् । अन्तर्व्याप्त्यैव साध्यसिद्धेः। सात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्यादिवदिति दर्शयिष्यते। तत्र निर्णयः संशयाऽनध्यवसायाविकल्पत्वरहितंज्ञानम् । ततो निर्णयपदेनाज्ञानरूपस्येन्द्रियसन्निकर्षादेर्ज्ञानरूपस्यापि संशयादेः प्रमाणत्वनिषेधः । अर्यतेऽर्थ्यते वाऽर्थो हेयोपादेयोपेक्षणीयलक्षणः । हेयस्य हातुम् उपादेयस्योपादातुम् उपेक्षणीयस्योपेक्षितुमर्थ्यमानत्वात् । न चानुपादेयत्वादुपेक्षणीयो हेय एवान्तर्भवति । अहेयत्वादुपादेय एवान्तर्भावप्रसक्तेः । उपेक्षणीय एव च मूर्दाभिषिक्तोऽर्थो योगिभिस्तस्यैवार्यमाणत्वात् । अस्मदादीनामपि हेयोपादेयाभ्यां भूयानेवोपेक्षणीयोऽर्थः । तन्नायमुपेक्षितुं क्षमः । अर्थस्य निर्णय इति कर्मणि षष्ठी । निर्णीयमानत्वेन व्याप्यत्वादर्थस्य । अर्थग्रहणं च स्वनिर्णयव्यवच्छेदार्थ तस्य सतोऽप्यलक्षणत्वादिति वक्ष्यामः । सम्यगित्यविपरीतार्थमव्ययं समञ्चतेर्वा रूपं तच्च निर्णयस्य विशेषणं तस्यैव सम्यक्त्वाऽसमक्त्वयोगेन विशेष्टमुचितत्वात् । अर्थस्तु स्वतो न सम्यग्नाप्यसम्यगिति सम्भवव्यभिचारयोरभावान विशेषर्णायः । १ लक्षणसूत्रम् १-२-६। २ लक्षणसूत्रम् १-२-१३ । ३. स्वः निर्णयः। : ४ विशेषणं दातुम् । ५ सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत् । न शैत्येन न चौष्ण्येन वति । पि विशिष्यते। १।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy