________________
सूत्र १-१-१
ሂ
[ प्रमाण
प्रकर्षेण संशयादि व्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणं प्रमायां साधकतमम् । तस्य मीमांसा उद्देशादिरूपेण प्रर्या लोचनम् । त्रयी हि शास्त्रस्य प्रवृत्तिः १ उद्देशः २ लक्षणम् ३ परीक्षा च । तत्र नामधेयमात्रकीर्त्तनमुद्देशः । यथेदमेव सूत्रम् । उद्दिष्टस्यासाधारणधर्म्मवचनं लक्षणम् । तद्द्द्वेधा १ सामान्यलक्षणम् २ विशेषलक्षणं च । सामान्यलक्षणमनन्तरमेव सूत्रम् ( १ १/२ ) विशेषलक्षणं विशदः प्रत्यक्षम् ( १|१|१३ ) इति । विभागस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्येदमित्थं भवति नेत्थमिति न्यायतः परीक्षणं परीक्षा, यथा तृतीयसूत्रम् (१।१।३ ) | पूजितविचारवचनश्च मीमांसाशब्दः । तेन न प्रमाणमात्रस्यैव विचारोऽत्राधिकृतः । किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण पूरिशोधितमार्गाणां नयानामपि । " प्रमाणनयैरधिगमः”
दिवाई
वाचकमुख्यः, सकलपुरुषार्थेषु मूर्द्धाभिर्षितस्य सोपायस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्रविचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाकलहमात्रं स्यात् । तद्विवक्षायां तु अथ प्रमाणपररीक्षेत्येव क्रियेत । तत् स्थितमेतत् प्रमाणनयपरिशोधितप्रमेयमार्ग सोपायं सप्रतिपक्षमोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥
तत्र प्रमाणसामान्यलक्षणमाह
१ युक्तितः ।
२ तत्त्वार्थाधिगमसूत्रे – अध्याय १ सूत्र ६ । भाष्यंच - एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्न्यस्तानां प्रमाणनयैर्विस्ताराधिगमो भवति । तत्र प्रमाणं द्विविधम् । परोक्षं प्रत्यक्षं च चतुर्विधमित्येके नयवादान्तरेण । नयाश्च नैगमादयः । ( नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः । तत्त्वार्थाधिगमसूत्र १ - ३४ )
३ श्रेष्ठस्य ।