________________
मीमांसा ]
सूत्र १-१-१, त्मकैः पञ्चभिरध्यायैः शास्त्रमेतदरचयदाचार्यः । तस्य च प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम् ॥
॥अथ प्रमाणमीमांसा ॥१-१-१॥ २ल अथेत्यस्याधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्याभिधानात्सकलशास्त्रतात्पर्यव्याख्यानेन प्रेक्षावन्तो बाधिताःप्रवर्तिताश्च भवन्ति । आनन्तार्थो वाऽथशब्दः शब्दकाव्यछन्दोनु-: शासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत इत्यर्थः । अनेन शब्दानुशासनादिभिरस्यैककर्तृकत्वमाह । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति, मङ्गले च सति परिपन्थिविघ्नविघाताम्रक्षेपेण शास्त्रसिद्धिरायुष्म च्छ्रोतृकता च भवति । परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना शास्त्रकारणोत ।
१ ' शास्त्रं ग्रन्थनिदेशयोः' इति अनेकार्थसंग्रहे २ कां. श्लो. ४५१. २ प्रेक्षावन्तो विचारिणः।
३ हेमचन्द्राचार्यैरष्टाध्यायात्मकं संस्कृतप्राकृतभाषाव्याकरणं सूत्रर्निबद्धम् । तत्र सप्ताध्यायाः संस्कृतव्याकरण उपयुक्ताः । अष्टमोऽध्यायः प्राकृतव्याकरणे । तथा च काव्यानुशासनमष्टाध्यायात्मकमेव साहित्यशास्त्रसर्वविषयनिदर्शकं निबद्धम् । एवमेव छन्दःशास्त्रेऽपि ग्रन्थोऽष्टाध्यायात्मकः । तत्र प्रथमः संज्ञाध्यायः । द्वितीयः समवृत्तव्यावर्णनाध्यायः । तृतीयोऽर्धसमविषमवैतालीयमात्रासमकादिव्यावर्णनाध्यायः । चतुर्थ आर्यागलितकखञ्जकशीर्षकव्यावर्णनाध्यायः । पञ्चम उत्साहादिप्रतिपादनाध्यायः । षष्ठः खदिचतुष्पदीशासनाध्यायः । सप्तमो द्विपदीव्यावर्णनाध्यायः । अष्टमः प्रस्तारादिव्यावर्णनाध्यायः । अत्रानुशासनत्रये स्वोपज्ञवृत्तिरप्यस्ति ।
४ अक्षेपेण-कालविलम्बाभावेन । - ५ तथाचोक्तं पातञ्जलमहाभाष्ये १।१।१ इत्यत्र ' मङ्गलादीनि हि शास्त्राणि प्रथन्ते। वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषकाणि च । अध्येतारश्च वृद्धियुक्ता यथा स्युरिति ।
६ परमे पदे तिष्ठतीति परमेष्ठिः, अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुषु पंचसु प्रसिद्धः ।