SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-३ भाव्यत्वात् । स्वपितृपुत्रापेक्षयैकस्य पितृत्वपुत्रत्ववद्विरोधाभावात् । न च स्वात्मनि क्रियाविरोधः । अनुभवसिद्धेऽर्थे विरोधासिद्धेः। अनुमानाच्च स्वसंवेदनसिद्धिः। तथाहि ज्ञानं प्रकाशमानमेवार्थ प्रकाशयाति प्रकाशकत्वात् प्रदीपवत् संवेदनस्य प्रकाशकत्वात् । प्रकाशकत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः । न च नेत्रादिभिरनैकान्तिकता। तेषां भावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैव न व्यभिचारः । तथा संवित् स्वप्रकाशा अर्थप्रतीतित्वात्। यः स्वप्रकाशो न भवति नासावर्थप्रतीतिर्यथा घटः। तथा यज्ज्ञानं तदात्मबोधं प्रत्यनपक्षितपरव्यापारं यथा गोचैरान्तरग्राहिज्ञानप्राग्भाविगोचरान्तरग्राहिज्ञानप्रबन्धस्यान्त्यज्ञानम् । ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति, संवित् स्वप्रकाशे स्वावान्तरजातीयं नापेक्षते वस्तुत्वात् घटवत् । संवित् परप्रकाश्या वस्तुत्वाद्धटवदिति चेत् न । अस्याप्रयोजकत्वात् । न खलु घटस्य वस्तुत्वात् परप्रकाश्यता अपि तु बुद्धिव्यतिरिक्तत्वात् । तस्मात् स्वनिर्णयोऽपि प्रमाणलक्षणमास्त्वित्याशङ्कायामाह १ लक्षणं २-१-२१ २ "लब्ध्युपयोगौ भावेन्द्रियम्"। तत्त्वार्थसूत्र २-१८ भाष्यम्-लब्धिरुपयोगश्च भावेन्द्रिय भवति । लब्धिर्नाम गतिजात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाअयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा स्पर्शनेन्द्रियलब्धिरसनेन्द्रियलब्धिोणेन्द्रियलब्धिक्षुरिन्द्रियलब्धिश्रोत्रेन्द्रियलब्धिरिति स्पर्शादिषु ‘स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि' ( तत्वार्थ २-२०) मतिज्ञानोपयोग इत्यर्थः । उक्तमेतत् 'उपयागो लक्षणम्' (त.२-८) उपयोगः प्रणिधानमायोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगी भवतः। सत्यां च लब्धौ निर्वृत्युपकरणोपयोगा भवन्ति । निर्वृत्यादीनामेकतराभावे विषयालोचनं न भवति । जिज्ञासुभिः सर्वार्थसिद्धितत्त्वार्थश्लोकवार्तिकतत्त्वार्थराजवार्तिकादयो द्रष्टव्याः । विस्तरभयान्न संगृह्यन्ते। .. ३ गोचरः विषयः।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy