SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सूत्र १-१-३ [प्रमाण ॥स्वनिर्णयः सन्नप्यलक्षणमप्रमाणेऽपि भावात्॥१-१-३॥ .. सन्नपीति परोक्तमनुमोदते । अयमों नास्तीत्येव सर्व लक्षणं वाच्यं किन्तु यो धर्मी विपक्षाव्यावर्त्तते । स्वनिर्णयस्त्वप्रमाणेऽपि संशयादौ वर्तते । नहि काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम ततो न स्वनिर्णयो लक्षणमुक्तोऽस्माभिः । द्वैस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः॥३॥ ननु च परिच्छिन्नमर्थ परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च गृहतिग्राहिणां धारावाहिकज्ञानानामाप प्रामाण्यप्रसङ्गः। ततोऽपूर्वार्थनिर्णय इत्यस्तु लक्षणम्। यथाहुः “ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्” इति । तथा-'अपूर्वार्थविज्ञानम् ' इति च । तंत्राह ॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥ १-१-४॥ अयमर्थ ः। द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा । तत्र पर्यायापेक्षया धारावाहिकज्ञानानामपि गृहीतग्राहित्वं न सम्भवति । क्षणिकत्वात् पर्यायाणाम् । तत्कथं तन्निवृत्त्यर्थ विशेषणमुपादीयते । अथ द्रव्यापेक्षया । तदप्ययुक्तम् । द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोन भेदः । ततश्च कं विशेषमाश्रित्य ग्रहीष्यमाणग्राहिणः प्रामाण्यं न गृहीतग्राहिणः । अपि च अवग्रहेहाँदीनां गृहीतग्राहित्वेऽपि प्रामाण्यमिष्यत एव । न चैषां भिन्न १ पिष्टस्य पेषणं नास्ति मृतस्य मरणं नहि ॥ इति न्यायात् २ एकस्मिन्नेव घटे " घटोऽयं घटोऽयम्" इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानामि ... धारावाहिकज्ञानानि । ३ दिगम्बराचार्यमाणिक्यनन्दिकृते परीक्षामुखे प्रथमोद्देशे प्रथमसूत्रम् । ४ आदिशब्दादीहावायधारणाग्रहणम् । एतेषां लक्षणं क्रमेण १-१-२७, १-१-२८, १-१-२९, १-१-३० सूत्रे द्रष्टव्यम् ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy