________________
मीमांसा ]
सूत्र १-१-७ विषयत्वम् । एवं ह्यवगृहीतस्याऽनीहनादीहितस्यानिश्चयादसमञ्जसमापद्येत । न च पर्यायापेक्षयानधिगतविशेषावसायादपूर्वार्थत्वं वाच्यम् । एवं हि न कस्यचिद् गृहीतग्राहित्वमित्युक्तप्रायम् । स्मृतेश्व प्रमाणत्वेनाभ्युपगताया गृहीतग्राहित्वमेव सतत्त्वम् । यैरपि स्मृतेरप्रामाण्यामिष्टं तैरप्यर्थादनुत्पाद एव हेतुत्वेनोक्तो न गृहीतग्राहित्वम् । यदाह "न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् । अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम्” इति ॥४॥ .. अथ प्रमाणलक्षणप्रतिक्षिप्तानां संशयानध्यवसायविपर्ययाणां लक्षणमाह॥अनुभयत्रोभयकोटिसंस्पर्शी प्रत्ययः संशयः॥१-१-५॥
अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः । यथान्धकारे दूरादुर्दाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति स्थाणुर्वा पुरुषो वोत प्रत्ययः । अनुभयत्रग्रहणमुभयरूपे वस्तुन्युभयकोटिसंस्पर्शेऽपि संशयत्वनिराकरणार्थम् । यथास्ति च नास्ति च घटः, नित्यश्चानित्यश्चात्मेत्यादि ॥५॥
॥विशेषानुल्लेख्यनध्यवसायः ॥ १-१-६॥ . दूरान्धकारादिवशादसाधारणधर्मावमर्शरहितः प्रत्ययोऽनिश्चयात्मकत्वादनध्यवसायः। यथा किमेतदिति । यद्यप्यविकल्पकं प्रथमलक्षणभावि परेषां प्रत्यक्षप्रमाणत्वेनाभिमतं तदप्यनध्यवसाय एव । विशेषोल्लेखस्य तत्राप्यभावादिति ॥ ६॥
अतस्मिंस्तदेवेति विपर्ययः॥ १-१-७॥ यज्ज्ञाने प्रतिभासिते तद्रूपरहिते वस्तुनि तदेवेति प्रत्ययो विपर्यासरूपत्वाद्विपर्ययः । यथा धातुवैषम्यान्मधुरादिद्रव्येषु तिक्तादि१ वातपित्तकफात्मका धातवः ।