________________
सूत्र १-१-७
[प्रमाण प्रत्ययः। तिमिरादिदोषादेकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः ।। नौयानादगच्छत्स्वापि वृक्षेषु गच्छत्प्रत्ययः । आशुभ्रमणादलाता- . दावचक्रेऽपि चक्रप्रत्ययः। इत्यवासितं प्रमाणलक्षणम् ॥ ७॥
नन्वस्तूक्तलक्षणं प्रमाणम् । तत्मामाण्यं तु स्वतः परतो वा निश्चीयेत । न तावत् स्वतः । तद्धि संविदितत्वात् ज्ञानमित्येव गृह्णीयान पुनः सम्यक्त्वलक्षणं प्रामाण्यम् । ज्ञानत्वमात्रं तु प्रमाणाभाससाधारणम् । अपि च स्वतःप्रामाण्ये सर्वेषामविप्रतिपत्तिप्रसङ्गः। नापि परतः । परं हि १ तद्गोचरगोचरं वा ज्ञानम् २ अभ्युपेतार्थक्रियानिर्भासं वा ३ तद्गोचरनान्तरीयकार्थदर्शनं वा। तच्च सर्व स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् । स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य । येन तस्यापि तन्न स्यात् । न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव परतस्त्वनवस्थेत्याशझ्याह॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥ १-१-८॥
प्रामाण्यनिश्चयः कचित् स्वतो यथाऽभ्यासदशापन्ने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञाने । नहि तत्र परीक्षाकाङ्क्षास्ति प्रेक्षावताम् । तथाहि जलज्ञानं ततो दाहपिपासातस्य तत्र प्रवृत्तिस्ततस्तत्माप्तिस्ततः स्नानपानादीनि ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता न पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतःप्रामाण्यम् । अनुमाने तु सर्वस्मिन्नपि सर्वथा निरस्तसमस्तव्यभिचाराशङ्के स्वत एव प्रामाण्यम् । अव्यभिचारिलिङ्गसमुत्थत्वात् । न लिङ्गाकारं ज्ञानं लिङ्ग विना, न च लिङ्गं लिङ्गिनं विनेति । कचित् परतः प्रामाण्यनिश्चयो यथा
१ अविप्रतिपत्तिः-अविरोधः।