________________
प्रमाण
प्रतिज्ञाहन एतानि चाव
नवाः " इति
सूत्र २-१-१०
[ प्रमाण व्यवस्थोपन्यासैरमीषां प्रतीतिभंड: करणीयस्तत्किमुच्यते एतावान् प्रेक्षप्रयोग इत्याशक्य द्वितीयमपि प्रयोगक्रममुपदर्शयति॥ बोध्यानुरोधात्प्रतिज्ञाहेतृदाहरणोपनयननिगमनानि
पञ्चापि ॥२-१-१०॥ बोध्यः शिष्यस्तस्यानुरोधस्तदवबोधनप्रतिज्ञापारतन्त्र्यं तस्मात् प्रतिज्ञादीनि पश्चापि प्रयोक्तव्यानि । एतानि चावयवसंज्ञया प्रोच्यन्ते । यदक्षपादः "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । अपिशब्दात् प्रतिज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यतश्रीभद्रबाहुस्वामिपूज्यपादाः " कत्थइ पञ्चावयवं देसहा वा सव्व हा ण पडिकुटुंति" ॥१०॥ तत्र प्रतिज्ञाया लक्षणमाह
॥साध्यनिर्देशः प्रतिज्ञा ॥२-१-११॥ साध्यं सिपाधयिषितधर्मविशिष्टो धर्मी, निर्दिश्यते अनेनेति "निर्देशो वचनं, साध्यस्य निर्देशः साध्यनिर्देशः प्रतिज्ञा प्रतिज्ञायतेऽनयति कृत्वा यथायं प्रदेशोऽग्निमानिति॥ ११ ॥
हेतुं लक्षयति॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः
॥२-१-१२॥ साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा तदन्तसाधनस्योक्तलक्षणस्य वचनं हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकर
१ प्रतिभाभङ्गः १ । इति क्वचित्पाठः । २ गौतमसूत्र १-१-३२। ३ दशवैकालिकसूत्रोपरि हरिभद्रीय बृहद्धत्तिः अध्ययन १ गाथा १। ४ ' तदन्तं ' इति क्वचित्पाठः ।