________________
मीमांसा ]
सूत्र २-१-१५
णाय प्रथमं पदम् । अव्याप्तवचने हेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्, तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥
७७
उदाहरणं लक्षयति
॥ दृष्टान्तवचनमुदाहरणम् ॥२- १ - १३ ॥ दृष्टान्त उक्तलक्षणस्तत्प्रतिपादकं वचनमुदाहरणं तदपि द्विविधं दृष्टान्तभेदात् साधनधर्मप्रत्युक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधम्र्योदाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्य - दृष्टान्तस्तस्य वचनं वैधम्र्योदाहरणम्, यथा योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ॥ १३ ॥
उपनयलक्षणमाह
॥ धर्मिणि साधनस्योपसंहार उपनयः ॥२- १ - १४॥ दृष्टान्तधर्मिणि विप्रसृतस्य साधनधर्मस्य साध्यधामणे य उपसंहारः स उपनयः उपसंह्रियतेऽनेनोपनीयतेऽनेनेतिवचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥
निगमनं लक्षयति
॥ साध्यस्य निगमनम् ||२-१-१५॥
साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति निगमनम्, यथा तस्मादग्निमानिति । एते नान्तरीयकत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादिनवा - मर्थविषयां धियमाधातुमलमिति प्रतिज्ञादीनां तं तं दोषमाशङ्कय तत्तत्परिहाररूपाः पञ्चैव शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥