________________
सूत्र २-१-१६
७८
[ प्रमाण इह शास्त्रे येषां लक्षणमुक्तं तल्लक्षणाभावे तदाभासाः सुप्रसिद्धा एव । यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिलक्षणाभावे संशयाद्याभासाः , प्रत्यक्षलक्षणाभावे प्रत्यक्षाभासः, परोक्षान्तर्गतानां स्मृत्यादीनां स्वस्वलक्षणाभावे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता सुज्ञानव । केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेषत्करप्रतिपत्तीति तल्लक्षणार्थमाह॥ असिद्धविरुद्धानेकान्तिकास्त्रयो हेत्वाभासाः
॥२-१-१६॥ · अहेतवो हेतुवदाभासमाना हेत्वाभासा असिद्धादयः । यद्यपि साधनदोषा एवैते दुष्टे साधने तदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचार्यैरभिहितास्ततस्तत्प्रसिद्धिवाधामनाश्रयद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति । त्रय इति संख्यान्तरव्यवच्छेदार्थम् । तेन कालातीतप्रकरणसमयोर्व्यवच्छेदः । तत्र कालातीतस्य पक्षदोषेष्वन्तर्भावः।"प्रत्यक्षागमबाधितधर्मिनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्ट" इति हि तस्य लक्षणमिति । यथाऽनुष्णस्तेजोऽवयवी कृतकत्वाद् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव । नास्ति सम्भवो यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदृषिते वाऽनुमानान्तरस्य । यत्तूदाहरणमनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादित्येकेनोक्ते द्वितीय आह नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदती वासाम्प्रतम् । को हि चतुरङ्गसभायां वादी प्रतिवादी चैवंविधमस
१ न किंचिदुपयोगि । अपित्वत्यन्तोपयोगीत्यर्थः । २ 'चानुमानान्तरस्य' इति पाठः ।
३ वादी १ प्रतिवादी २ तटस्थाः ३ मध्यस्थः ४ इतिचतुरवयवविशिष्टा सभा । साधु १ साध्वी २ श्रावक ३ श्राविका ४ इत्यपि परिभाषिकः चतुरङ्गसभाया अर्थः । परं सोऽत्र वादसभायामनुपयुक्तः ।