________________
७५
मीमांसा]
सूत्र २-१-९ ॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवतदुपपत्तिः ॥२-१-८॥ साध्यमेव धर्मस्तस्याधारस्तस्य सन्देहस्तदपनोदाय कृतकः सोऽनित्य इत्युक्तेपि धर्मिविषयसन्देह एव किमानत्यः शब्दो घटो वेति तन्निराकरणाय गम्यमानस्यापि साध्यस्य निर्देशो युक्तः। साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवचनवत् । तथाहि साध्यव्याप्तसाधनदर्शनेन तदाधारावगतावपि नियतधार्मिसम्बन्धिताप्रदर्शनार्थ कृतकश्च शब्द इति पक्षधर्मोपसहारवचनं तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय प्रतिज्ञावचनमप्युपपद्यत एवेति ॥८॥
ननु प्रयोग प्रति विप्रतिपद्यते वादिनः। तथाहि, प्रतिज्ञाहेतूदाहरणानाति व्यवयर्वमनुमानमिति साङ्ख्याः । सहोपनयेन चतुरवयवमिति मीमांसकाः।सहनिगमनेन पञ्चावयवमिति नैयायिकाः । तदेवं प्रतिपत्तौ कीदृशोऽनुमानप्रयोग इत्याह
॥ एतावान् प्रेक्षप्रयोगः ॥२-१-९॥ एतावानेव यदुत तथोपपत्त्यान्यथानुपपत्त्या वा युक्तं साधनं प्रतिज्ञा च प्रेक्षाय प्रेक्षावते प्रतिपाद्याय तदवबोधनार्थः प्रयोगो न त्वधिक यथाहुः सांख्यादयः । नापि हीनो यथाहुः सौगताः। विदुषां वाच्यो हेतुरेव हि केवल इति ॥९॥
ननु परार्थप्रवृत्तैः कारुणिकैर्यथाकथञ्चित् परे बोधयितव्या नास
१ 'यथाहि ' इति क्वचित्पाठः। २ ५ सांख्यकारिकायां माठरवृत्तौ चोक्तोऽर्थः । ३ गौ. सू. १११।३२ इत्यत्रोक्तोर्थः । ..