________________
-- ७४
सूत्र २-१-७
[प्रमाण धायिना परे बोधिता भवन्ति । न खल्वश्वान पृष्टो गवयान् ब्रुवाणः प्रष्टुरवधेयवचनो भवति । अनवधेयवचनश्च कथं प्रतिपादको नाम । यथा च शैक्षो भिक्षुणाचचक्षे । भोः शैक्ष पिण्डपानमाहरेति स एवमाचरामीत्यनाभधाय यदा तदर्थ प्रयतते तदाऽस्मै क्रुध्यति भिक्षुराः शिष्याभास भिक्षुखेटास्मानवधीरयसीति विब्रुवाणः । एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इति विषयमनुपदर्य यदेव किंचिदुच्यते कृतकत्वादिति वा । यत्कृतकं तदनित्यमिति वा । कृतकत्वस्य तथैवोपपत्तेरिति वा । कृतकत्वस्यान्यथानुपपत्तिरिति वा । तत्सर्वमस्यानपेक्षितमापाततोऽसम्बधाभिधानबुध्या । तथा चानवहितो न बोद्धमहतीति । यत्कृतकं तत्सर्वमनित्यं यथा घटः । कृतश्च शब्द इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वानिश्चायकमित्यवधानमत्रति चेत् । न । परस्पराश्रयात् । अवधाने हि सत्यतोऽर्थे निश्चयः तस्माच्चावधानामति । न च पर्षत्पतिवादिनौ प्रमाणीकृतवादिनौ यदेतद्वचनसम्बन्धाय प्रयतिष्येते तथा सति न हेत्वाद्यपेक्षया तां तदवचनादेव तदर्थनिश्चयात् । अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्याशङ्कायां कृतकत्वस्य तथैवोपपत्तेः कृतकत्वस्यान्यथानुपपत्तेर्वेत्युपतिष्ठते तदिदं विषयोपदर्शनार्थत्वं प्रतिज्ञाया इति॥७॥
ननु यत्कृतकं तदनित्यं यथा घटः। कृतकश्च शद्धः इत्युक्ते गम्यत एतदनित्यः शब्दः इति तस्य सामर्थ्यलब्धत्वात् तथापि तद्वचने पुनरुक्तत्वप्रसङ्गात् , अर्थादापन्नस्य स्वशद्धेन पुनर्वचनं पुनरुक्तम् । आह च डिंडिकरांगं परित्यज्याक्षिणी निर्माल्य चिन्तय तावत् किमियता मदुक्तेन प्रतीतिः स्यान्नवेति भावे किं प्रपञ्चमालयेत्याह१ तद्वचनादेव' इति क्वचित्पाठः।
२ डिंडिको नाम रक्तवर्णो मूषकविशेषः । तद्वत् रागं रक्तिमां नेत्रगतां परित्यज्य नेत्रे विमलीकृत्येत्यर्थः।
३ " अनित्यत्वस्य ' इति क्वचित्पाठः ।