________________
मीमांसा ] १७
सूत्र १-१-१५ ण्णम् । अथ स्फुटत्वं, तदपि स्वसंविदितत्वात् सर्वविज्ञानानां सममित्याशङ्क्याह
॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा
वैशद्यम् ॥ १-१-१४॥ प्रस्तुतात् प्रमाणादन्यत् प्रमाणं शब्दलिङ्गादिज्ञानं तत् प्रमाणान्तरं तनिरपेक्षता वैशद्यम् । नहि शब्दानुमानादिवत् प्रत्यक्षं स्वोत्पत्तौ शब्दलिङ्गादिज्ञानं प्रमाणान्तरमपेक्षते । इत्येकं वैशद्यलक्षणम् । लक्षणान्तरमाप इदन्तया प्रतिभासो वेति इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम् । वाशब्दो लक्षणान्तरत्वसूचनार्थः ॥ १४ ॥
अथ मुख्यसांव्यवहारिकभेदन द्वैविध्यं प्रत्यक्षस्य हदि निधाय मुख्यस्य लक्षणमाह॥ तत्सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो
मुख्यं केवलम् ॥ १-१-१५॥ तदिति प्रत्यक्षस्य परामर्शार्थम् । अन्यथानन्तरमेव वैशद्यमभिसम्बध्येत दीर्घकालनिरन्तरसत्कारासवितरत्नत्रयप्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निःशेषतया ज्ञानावरणीयादीनां घातिकमणां प्रक्षये सति चेतनास्वभावस्यात्मनः प्रकाशस्वभावस्यति यावत्। स्वरूपस्य प्रकाशस्वभावस्य सत एवावरणापगमेनाविर्भाव आविर्भूतं स्वरूपं मुखमिव शरीरस्य सर्वज्ञानानां प्रधान मुख्य प्रत्यक्षम् । तच्चेन्द्रियादिसाह यकविरहात् सकलविषयत्वादसाधारणत्वाच केवलमित्यागमे प्रसिद्धम् । प्रकाशस्वभावता कथमात्मनः सिद्धति चेत् ।
१ ज्ञानदर्शनचारित्राणि-इति रत्नत्रयम् ।
२ आदिशब्दात् दर्शनावरणमोहनीयान्तरायाख्वकर्मणो ग्रहणम् । लक्षणं अस्मिन् ग्रंथे पृ. १८ पं, २२ । ३ प्र. न. लो, प, २ सू. २३