________________
सूत्र १-१-१५ ---- १८
--
[प्रमाण एते ब्रूमः। आत्मा प्रकाशस्वभावोऽसन्दिग्धस्वभावत्वात् । यः प्रकाशस्वभावो न भवति नासावसन्दिग्धस्वभावो यथा घटः । न च तथात्मा । न खलु कश्चिदहमस्मि न वेति सन्दिग्धे । इति । नासिद्धो हेतुः । तथात्मा प्रकाशस्वभावो बोद्धृत्वात् । यः प्रकाशस्वभावो न भवति नासौ बोद्धा यथा घटः । न च न बोद्धात्मतेति । तथा यो यस्याः क्रियायाः कर्ता न स तद्विषयो यथा गतिक्रियायाः कत्तो चैत्रो न तद्विषयो ज्ञप्तिक्रियायाः कर्ता चात्मोत । अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् । आवरणे वा सततावरणप्रसङ्गः । नैवम् । प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनीहाराभ्रपटलादिभिरिव ज्ञानावरणीयादिकर्माभिरावरणस्य सम्भवात् । चन्द्रार्कादेरिव च प्रबलपवमानप्रायैर्ध्यानभावनादिभिर्विलयस्य चेति । ननु सादित्वे स्यादावरणस्योपायतो विलयः । नैवम् । अनादेरापि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् तद्वदेवानादेरापि ज्ञानावरणीयादिकर्मणः प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । न चामूर्त्तस्यात्मनः कथमावरणमिति वाच्यम् । अमूर्ताया आप चेतनाशक्तमदिरामदनकोद्रवादिभिरावरणदर्शनात् । अथावरणीयतत्पक्षाभ्यामात्मा विक्रियेत न वा । किं चातः । “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः” इति चेत् । न । अस्य दूषणस्य
१ आदिशद्वात् पढमं १ नाणावरणं, बीयं पुण २ दंसणस्स आवरणं । तइयं च ३ वेयणीयं, तहा चउत्थं च ४ मोहणीयं ॥ ५॥५ आऊ ६ नामं ७ गोय, अटमियं ८ अंतराइयं होइ, । इति कर्मग्रन्थ १ गाथा ५-६ । व्याख्या-प्रथममाद्यं ज्ञानावरणं ज्ञानस्यावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम् । तस्य स्वभावोऽर्थानवगमः । एतत्कर्मादित्यप्रभाच्छादकमेघवज्ञातृत्वशक्तिमावृणोति । १ । दृश्यतेऽनेनेति दर्शनं तस्यावरणं दर्शनावरणं तस्य स्वभावोऽर्थानालोचनम् । एतत्कर्म प्रदीपप्रभातिरोधायककुम्भवद्दर्शनमावृणोति । २ । वेद्यते आह्वादादिरूपेणानुभूयते यत्तद्वेदनीयम् । यद्यपि