________________
मांसा ]
१९
सूत्र १-१-१६ कूटस्थानित्यतापक्ष एव सम्भवात् । परिणामिनित्यश्चात्मति तस्य पूर्वापरपर्यायोत्पादविनाशसहितानुवृत्तरूपत्वात् । एकान्तनित्यक्षणिकपक्षयोः सर्वथार्थक्रियाविरहात् । यदाह " अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता" इति ॥ १५॥
ननु प्रमाणाधीना प्रमेयव्यवस्था । न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ किश्चित् प्रमाणमास्ति । प्रत्यक्षं हि रूपादिविषयविनिर्मितव्यापारं नातीन्द्रियेऽर्थे प्रवार्तितुमुत्सहते । नाप्यनुमानम् । प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलोपजनितधर्मकत्वात्तस्य । आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकस्तदेतरेतराश्रयः। “नर्ते तदागमात्सिध्येन च तेनागमो विना" इति । अपौरुषेयस्तु तत्सासर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासात( सुखदुःख ) रूपमेव कर्म वेदनीयमित्युच्यते । तस्य स्वभावः सुखदुःखसंवेदनम् । एतत्कर्म सुखं दुःखं चोत्पादयति ३। दर्शनचारित्रे च मोहमुत्पादयति मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति वा मोहनीयम्। आद्यस्य (दर्शनमोहनीयस्य) स्वभावस्तत्त्वार्थाश्रद्धानम् । एतत्कर्म दुर्जनसङ्गवत्तत्त्वार्थेऽश्रद्धामुत्पादयति । द्वितीयस्य (चारित्रमोहनीयस्य) स्वभाव इन्द्रियनियमनाभावः । एतत्कर्म त्वाचरण इन्द्रियाणाव्यवस्थामुत्पादयति ४ । एति गच्छति गत्यन्तरमनेनेत्यायुः । आयुर्नामकर्मणः स्वभावो भवधारणम् । एतत्कर्म तरितॄणां मनुष्यपश्वादीनां जलवद्देहं धारयति ५ । नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति । नामसंज्ञककर्मणः स्वभावो नारकादिनामकरणम् । एतत्कर्म चित्रकारवन्नानाविधाः संज्ञा आधचे ६ । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् । गोत्रकर्मणः स्वभावः उच्चनीचसंशद्धनम् । एतत्कर्म कुम्भकारो घटेष्विव शरीर उच्चनीचावस्थां संपादयति ७ । जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीत्यन्तरायम् अन्तरायकम् । एतत्कर्म कृपणवद्दानादिषु विघ्नमुत्पादयति । इति शेयम् ।
१ श्लोकवार्तिक सूत्र २ श्लोक १४२ । ।