SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सूत्र १-१-१६ २० [ प्रमाण 1 । धको नास्त्येव । योऽपि " अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् " इत्यादिः कश्चिदर्थवादरूपोऽस्ति नासौ प्रमाणम् । विधावेव प्रामाण्योपगमात् । प्रमाणान्तराणां चात्रानवसर एवेत्याशङ्कयाह ॥ प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१-१-१६॥ प्रज्ञाया अतिशयस्तारतम्यं क्वचिद्विश्रान्तमतिशयत्वात् परिमाणातिशयवदित्यनुमानेन निरतिशयप्रज्ञप्तिसिद्धा तस्य केवलज्ञानस्य सिद्धिः। तत्सिद्धिरूपत्वात् केवलज्ञानसिद्धेः । आदिग्रहणात् सूक्ष्मा - न्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् घटवदित्यतो ज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तेश्व तत्सिद्धिः । यदाह " धीरत्यन्तपरोक्षेऽर्थे न चेत् पुंसां कुतः पुनः । ज्योतिर्ज्ञानाविसंवादः श्रुताच्चेत्साधनान्तरम् " । अपि च नोदना हि भूतं भवन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमेवञ्जातीयकमर्थमवगमयति नान्यत्किंचनेन्द्रियमिति वदता भूताद्यर्थपरिज्ञानं कस्यचित् पुंसोऽभिमतमेव । अन्यथा कस्मै वेदस्त्रिकालविषयमर्थं निवेदयेत् । स हि निवेदयंस्त्रिकालविषयतत्त्वज्ञमेवाधिकारिणमुपादत्ते । तदाह । “ त्रिकाल - विषयं तत्त्वं कस्मै वेदो निवेदयेत् । अक्षय्यावरणैकान्तान्न चेद्वेद तथा नरः " इति, त्रिकालविषयवस्तुनिवेदनाऽन्यथानुपपत्ते१ श्वेताश्वतरोपनिषद् ३ – १९ । २ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ' इति जैमिनिसूत्रम् । (जै. १-२ - १ ) ३ केवलज्ञानलक्षणम् ‘ सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ' । इति प्रमाणनयतत्वालोकालङ्कारे परिच्छेद २ सूत्रम् २३ | (
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy