SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मीमांसा ] सूत्र १-१-१६ " रितीन्द्रियकेवलज्ञानसिद्धिः । किञ्च प्रत्यक्षानुमानसिद्धसंवादं शास्त्रमेवातीन्द्रियार्थदर्शिसद्भावे प्रमाणम् । य एव हि शास्त्रस्य विषयः स्याद्वादः स एव प्रत्यक्षादेरपीति संवादः । तथाहि “ सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः " इति दिशा प्रमाणसिद्धं स्याद्वादं प्रतिपादयन्नागमोऽर्हतस्सर्वज्ञतामपि प्रतिपादयति, यदस्तुम “ यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमात्मभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय " इति । प्रत्यक्षं तु यद्यप्यैन्द्रियिकं नातीन्द्रियज्ञानविषयं तथापि समाधिबललब्धजन्मकयोगिप्रत्यक्षमेव बाह्यार्थस्येव स्वस्यापि वेदकमिति प्रत्यक्षतोऽपि तत्सिद्धिः । अथ “ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्म्मश्च सहसिद्धं चतुष्टयम् " । इति वचनात्सर्वज्ञत्वमीश्वरादीनामस्तु । मानुषस्य तु कस्यचिद्विद्याचरणवतोपि तदसम्भावनीयम् । यत्कुमारिलः । “अथापि वेददे - हत्वाद्ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः सार्वश्यं मानुषस्य किम् ॥” इति, आः सर्वज्ञापलापपातकिन् दुर्वदवादिन् मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानधिक्षिपासे । ये हि जन्मान्तरार्जितोर्जितपुण्यप्राग्भाराः सुरभवभवमनुपमं सुखमनुभूय दु:खपङ्कमनमखिलं जीवलोकमुद्दिधीर्षवो नरकेष्वपि क्षणं क्षिप्तमुखासिकामृतवृष्टयो मनुष्यलोकमवतेरु: जन्मसमयसमकालचलितासनसकलसुरेन्द्रवृन्दविहितजन्मोत्सवाः किङ्करायमाणसुरसमूहाहमहमिकारब्धसेवाविधयः स्वयमुपनतामतिप्राज्यसाम्राज्यश्रियं तृणवदवधूय समतृण१ श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक २१ । T २ अहं पूर्वमहं पूर्वमिति यस्यां क्रियायाम् । २१
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy