________________
सूत्र १-१-१२
[प्रमाण
प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ २ ॥” इति । ननु भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् । भेदे वा घटाद्यभावरहितं भूतलं प्रत्यक्षेण गृह्यत इति घटादयो गृह्यन्त इति प्राप्तम् । तदभावग्रहणस्य तद्भावग्रहणनान्तरीयेकत्वात् । तथा चाभावग्रहणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिष्ठं स्यात् । अन्यथा सङ्कीर्णस्य सङ्कीर्णताग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् । अपि चायं प्रमाणपञ्चकनिवृत्तिरूपत्वात् तुच्छः । तत एवाज्ञानरूपः कथं प्रमाणं भवेत् । तस्मादभावांशात्कथंचिदभिन्नं भावांशं परिच्छिन्दता प्रत्यक्षादिना प्रमाणेनाभावांशी गृहीत एवेति तदतिरिक्तविषयाभावान्निर्विषयोऽभावः । तथा च न प्रमाणमिति स्थितम् ॥ १२ ॥ विभागमुक्त्वा विशेषलक्षणमाह
॥ विशदः प्रत्यक्षम् ॥ १-१-१३॥
सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सस्यगर्थ निर्णय इति प्रमाणसामान्यलक्षणमनूद्य विशद इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च प्रत्यक्षं धर्मिं । विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः । यद्विशद सम्यगर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम् । यथा परोक्षामिति व्यति - रेकी । धर्मिणो हेतुत्वेऽनन्वयदोष इति चेत् । न । विशेषे धर्मिणि धर्मिसामान्यस्य हेतुत्वात् । तस्य च विशेषनिष्ठत्वेन विशेषेष्वन्वयसम्भवात् । सपक्षे वृत्तिमन्तरेणापि च विपक्षव्यावृत्तिबलाद्गमकत्वमित्युक्तमेव ॥ १३ ॥
अथ किमिदं वैशद्यं नाम । यदि स्वविषयग्रहणं तत्परोक्षेप्यक्षु
१६
१ 'जायते ऽक्षानपेक्षणात्' इति श्लोकवार्तिकेषु पाठः ।
२ आवश्यकत्वात् । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणता ।