________________
मीमांसा ] १५ सूत्र १-१-१२
यत्तु प्रमाणमेव न भवति न तेनान्तर्भूतेन बहिर्भूतेन वा किंचित् प्रयोजनम् । यथाऽभावः । कथमस्याप्रामाण्यम् । निर्विषयत्वाद् इति ब्रूमः । तदेव कथमिति चेत् ॥ ॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः॥
१-१-१२॥ नहि भावैकरूपं वस्त्विति । विश्वस्य वैश्वरूप्यप्रसङ्गात् । नाप्यभावैकरूपम् । नीरूपत्वप्रसङ्गात् । किन्तु स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावरूपं वस्तु । तथैव प्रमाणानां प्रवृत्तेः । तथाहि प्रत्यक्षं तावद्भूतलमेवेदं घटादि न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तु परिच्छिन्दत् तदधिक विषयभावैकरूपं निराचष्ट इति के विषयमाश्रित्याभावलक्षणं प्रमाणं स्यात् । एवं परोक्षाण्याप प्रमाणानि भावाभावरूपवस्तुग्रहणप्रवणान्येव । अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः । यदाह " अयमेवेति यो ह्येष भावे भवति निर्णयः। नैष वस्त्वन्तराभावसंवित्त्पनुगमाहते॥” इति । अथ भवतु भावाभावरूपता वस्तुनः । किं नश्च्छिन्नम् । वयमापहि तथैव प्रत्यपीपदाम । केवलं भावांश इन्द्रियसनिकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः। इति अभावांशस्तु न तथेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् । तदुक्तं "नं तावदिन्द्रियेणैषा नास्ती त्युत्पाद्यते मतिः। भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा च १ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो.. १५.
२ श्लोक वा. सू. ५. अभावपरिच्छेदे श्लो. १८. - ३ 'इन्द्रियरेषा' इति श्लोकवार्तिकेषु पाठः । - ४ 'उत्पद्यते' इति श्लोकवार्तिक पाठः ।
५ श्लोक वा. सू. ५ अभावपरिच्छेदे श्लो. २७.