________________
सूत्र १-२-१२
[ प्रमाण अन्यथा विरोधासिद्धः । चशब्दो यत एते स्वभावकारणकार्यव्यापका अन्यथानुपपन्नाः स्वसाध्यमुपस्थापयन्ति तत एव तदभावे स्वयं न भवन्ति । तेषामनुपलब्धिरप्यभावसाधनानीत्याह । तत्र स्वभावानुपलब्धिर्यथा । नात्र घटो, द्रष्टुं योग्यस्यानुपलब्धेः । कारणानुपलब्धिर्यथा नात्र धुमोऽग्न्यभावात् । कार्यानुपलब्धिर्यथा । नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावात्, व्यापकानुपलाब्धर्यथा । नात्र शिंशपा, वृक्षाभावात् । विराोध तु प्रतिषेध्यं । तत्तत्कार्यकारणाव्यापकानां च विरुद्धं विरुद्धकार्यम् । यथा न शीतस्पर्शो, नाप्रतिबद्धसामर्थ्यानि शीतकारणानि, न रोमहर्षविशेषाः, न तुषारस्पर्शोऽग्नेधूमावति प्रयोगनानात्वमिति ॥१२॥ साधनं लक्षयित्वा विभज्य च साध्यस्य लक्षणमाह॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः
॥ १-२-१३॥ साधयितुमिष्टं सिषाधयिषितम् । अनेन साधयितुमनिष्टस्य साध्यत्वव्यवच्छेदः । यथा वैशेषिकस्य नित्यः शब्द इति शास्त्रोक्तत्वाद्वैशेषिकेणाभ्युपगतस्याप्याकाशगुणत्वादेर्न साध्यत्वं तदा साधयितुमानिष्टत्वात् । इष्टः पुनरनुक्तोऽपि पक्षो भवति । यथा पराश्चक्षुरादयः सङ्घातत्वाच्छयनाशनाद्यङ्गवदित्यत्र परार्थाः । बुद्धिमत्कारणपूर्वकं क्षित्यादि कार्यत्वादित्यत्राऽशरीरसर्वज्ञपूर्वकत्वमिति । असिद्धमित्यनेनानध्यवसायसंशयविपर्ययविषयस्य वस्तुनः साध्यत्वम् । न सिद्धस्य । यथा श्रावणः शब्द इति नानुपलब्धे न निर्णीते न्यायः प्रवर्तत इति हि सर्वपार्षदम् । अबाध्यमित्यनेन . १ — प्रतिषेध्यस्य तत्कार्यव्यापकानां ' इति क्वचित्पाठः । २ ' पूर्वकं ' इति क्वचित्पाठः । ३ सर्वसंमतम् ।