________________
मीमांसा]
सूत्र १-२-१५
प्रत्यक्षादिबाधितस्य साध्यत्वं मा भूदित्याह-एतत्साध्यस्य लक्षणं पक्ष इति साध्यस्यैव नामान्तरमेतत् ॥१३॥
अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति॥ प्रत्यक्षानुमानागमलोकस्ववचन प्रतीतयो बाधाः
॥१-२-१४॥ प्रत्यक्षादीनि ताद्वरुद्धार्थोपस्थापनेन बाधकत्वात् बाधाः । तत्र प्रत्यक्षबाधा । यथा अनुष्णोऽग्निः, न मधु मधुरं, न सुगन्धि विदलन्मालतीमुकुलम्, अचाक्षुषो घटः, अश्रावणः शब्दः, नास्ति बहिरर्थ इत्यादि । अनुमानबाधा यथा । सरोम हस्ततलं, नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा, । आगमबाधा यथा । प्रेत्यासुखप्रदो धर्म इति परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा । शुचि नरशिरःकपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववचनवाधा यथा । माता मे वन्ध्येति । प्रतीतिबाधा यथा । अचन्द्रः शशीति । अत्र शशिनश्चन्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥
अत्र साध्यं धर्मो, धर्मधार्मिसमुदायो वेति संशयव्यवच्छेदायाह॥ साध्यं साध्यधर्मविशिष्ये धर्मी क्वचित्तु धर्मः
॥१-२-१५॥ साध्यं साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह । साध्यधर्मेणानित्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत्प्रयोगकालापेक्षं साध्यशब्दवाच्यत्वम् । कचित्तु व्याप्तिग्रहणकाले धर्मः साध्यशब्देनोच्यते । अन्यथा व्याप्तेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति ॥१५॥