________________
सूत्र १-२-
१६ ६ ८ [प्रमाण धर्मिस्वरूपनिरूपणायाह॥ धर्मी प्रमाणसिद्धः ॥ १-२-१६॥
प्रमाणैः प्रत्यक्षादिभिः प्रसिद्धो धर्मी भवति । यथाग्निमानयं देशः इत्यत्र हि देशः प्रत्यक्षेण सिद्धः । एतेन सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधामन्यायेन न बहिःसदसत्त्वमपेक्षत इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति । तदवास्तवत्वे तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः । तदबुद्धेः पारम्पर्येणापि वस्तुव्यवस्थापकत्वायोगात् । ततो विकल्पेनानेन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मिता प्रतिपद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥१६॥ अपवादमाह
॥ बुद्धिसिद्धोऽपि ॥ १-२-१७॥ नैकान्तेन प्रमाणसिद्ध एव धर्मी भवति किं तु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी भवति । अपि शब्देन प्रमाणबुद्धिभ्यामुभाभ्यायामपि सिद्धोधर्मी भवतीति दर्शयति । तत्र बुद्धिसिद्ध धर्मिणि साध्यधर्मः सत्त्वमसत्त्वं च प्रमाणवलेन साध्यते । यथाऽस्ति सर्वज्ञो नास्ति षष्ठं भूतमिति । ननु धर्मिणि साक्षादसाति भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वेनानुमानविषयत्वायोगात् कथं सत्त्वासत्त्वयोः साध्यत्वम् । तदाह-" नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः। विरुद्धधर्मो भावस्य सा सत्ता साध्यते कथम् ॥” इति । मैवम् । मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्ध्यर्थमनुमानम् तदभ्युपेतमपि वैयात्यायो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात् । न