________________
मीमांसा ]
सूत्र १-२-१९ च मानसज्ञानात् खरविषाणादेरपि सद्भावसम्भावनातोऽतिप्रसङ्गः । तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तुविषयतया मानसप्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतार्धर्मित्वमिति चेत् । धर्मिप्रयोगकाले बाधकप्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्त्वसंशीतिः सुनिश्चिता । असम्भवद्भाधकप्रमाणत्वेन सुखादाविव सत्त्वनिश्चयात्तत्र संशयायोगात् । उभयसिद्धो धर्मी यथा । अनित्यः शद्ध इति । नहि प्रत्यक्षेणार्वाग्दशिभिरनियतदिग्दर्शिभिर्नियतदिग्देशकालावच्छिन्नाः सर्वे शद्धाः शक्या निश्चेतुमिति शदस्य प्रमाणबुद्धयुभयसिद्धता तेनानित्यत्वादिधर्मः प्रसाध्यत इति ॥ १७॥
ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत्कथं साध्यसाधने एवानुमानाङ्गमुक्त न दृष्टान्त इत्याह
॥ न दृष्टान्तोऽनुमानाङ्गम् ॥ १-२-१८॥ दृष्टान्तो वक्ष्यमाणलक्षणो नानुमानस्याङ्गं कारणम् ॥ १८ ॥ कुत इत्याह
॥ साधनमात्रात्तत्सिद्धेः ॥ १-२-१९॥ दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् साधनादनुमानस्य साध्यप्रतिपत्तिलक्षणस्य भावान दृष्टान्तोऽनुमानाङ्गामति । स हि साध्यप्रतिपत्तौ, वाऽविनाभावग्रहणे, वा व्याप्तिस्मरणे वोपयुज्येत । न तावत् प्रथमः पक्षः । यथोक्तादेव हेतोः साध्यप्रतिपत्तेरुपपत्तेः ।
१ 'सत्ताकावस्तु' इति क्वचित्पाठः । २ संशीतिः-संशयः । ३ 'सुखादिवच्च' इति क्वचित्पाठः । ४ प्रमाणाधुभयासद्धता ।