________________
सूत्र १-२-१९
७०
[प्रमाण नापि द्वितीयः । विपक्षे बाधकाविनाभावादेवार्थिनाभावग्रहणात् । किं च व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन व्याप्तिं गमयेत् । व्यक्तयन्तरेषु व्याप्त्यर्थ दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन । साकल्येन व्यारवंधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् । नापि तृतीयः । गृहीतसम्बन्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्धस्य दृष्टान्तेऽप्यस्मरणात् । उपलब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥ दृष्टान्तस्य लक्षणमाह
॥स व्याप्तिदर्शनभूमिः ॥ १-२-२०॥ स इति दृष्टान्तो लक्ष्यं व्याप्तिर्लक्षितरूपा दर्शनं परस्मै प्रतिपादनं तस्य भूमिराश्रय इति लक्षणम् । ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थं लक्ष्यते । उच्यते । परार्थानुमाने बोध्यानुरोधादादादिकस्योदाहरणस्यानुज्ञास्यमानत्वात् । तस्य च दृष्टान्ताभिधान-. रूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि
ाप्तिबलेनान्ताप्तिपातपत्तिर्भवताति स्वार्थानुमानपर्वण्याप दृष्टान्तलक्षणं नानुपपन्नम् ॥ २०॥ तद्विभागमाह॥ स साधर्म्यवैधाभ्यां बेधा ॥ १-२-२१॥ स दृष्टान्तः साधर्म्यणान्वयेन वैधपेण च व्यतिरेकेण भवतीति द्विप्रकारः ॥ २१ ॥ साधर्म्यदृष्टान्तं विभजते । ॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः
॥१-२-२२॥ १ 'बाधकाविनाभावग्रहणात् ' इति क्वचित्पाठः । २ ' अवयवादिकस्य ' इति क्वचित्पाठः ।