SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मीमांसा सूत्र २-१-२ साधनधर्मेण प्रयुक्तो न तु काकतालीयो यः साध्यो धर्मस्तद्वान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शद्धे साध्ये घटादिः॥२२॥ वैधर्म्यदृष्टान्तं व्याचष्टे । ॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्चियोगी वैधर्म्यदृष्टान्तः ॥ १-२-२३॥ साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथंचिद्या साधनधर्मनिवृत्तिस्तद्वान् वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ॥ २३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥ ॥प्रथमोऽध्यायः समाप्तः ॥ लक्षितं स्वार्थमनुमानमिदानी क्रमप्राप्तं परार्थमनुमानं लक्षयति॥ यथोक्तसाधनाभिधानजः परार्थम् २-१-१॥ ...यथोक्तं सुनिश्चितसाध्याविनाभावैकलक्षणं यत्साधनं तस्याभिधानम् । अभिधीयते परस्मै प्रतिपाद्यते अनेनेत्यभिधानं वचनं तस्माजातः सम्यगर्थनिर्णयः परार्थमनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः॥१॥ ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह ॥वचनमुपचारात् ॥२-१-२॥ अचेतनं हि वचनं न साक्षात्ममितिफलहेतुरिति न निरुपचरित१ काकागमनमिव तालीपतनमिवेति काकतालीयः । अयमर्थः । यथा तालवृक्षस्याधस्तात् यदृच्छया काकस्यागमनं तत्पुरस्तात् तालफलस्य पतनमयत्नतस्तस्य फलस्य विभेदी दूरपतितत्वात् । ततश्च काकेन तत्फलभक्षणम् । एताः सर्वाः क्रिया अयत्नत एव समभूवंस्तद्वदिति ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy