________________
सूत्र २-१- २ २
प्रमाण प्रमाणभावभाजनं मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्रता प्रतिपद्यते उपचारश्चात्र कारणे कार्यस्य यथोक्तसाधनाभिधानात् तद्विषया स्मृतिरुत्पद्यते स्मृतेश्चानुमानं तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणं तस्मिन् कारणे वचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते ततः समारोपात् कारणं वचनमनुमानशद्धेनोच्यते कार्ये वा प्रतिपादकानुमानजन्ये वचने कारणस्यानुमानस्योपचारः वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः । इह च मुख्यार्थबाधे प्रयोजने निमित्ते चोपचारः प्रवर्तते तत्र मुख्योऽर्थः साक्षात्ममितिफलः सम्यगर्थनिर्णयः प्रमाणशब्दः सामानाधिकरणस्य परार्थानुमानशब्दस्य तस्य बाधो वचनस्य निर्णयत्वानुपपत्तेः । प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव निर्णयात्मन्यनशे तद्व्यवहारानुपपत्तेः । निमित्तं तु निर्णयात्मकानुमानहेतुत्वं वचनस्येति ॥२॥
॥ तद् द्वेधा ॥२-१-३॥ तद्वचनात्मकं परार्थानुमानं द्वधा द्विप्रकारम् ॥ ३॥ प्रकारभेदमाह
॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥२-१-४॥ तथा साध्ये सत्येवोपपत्तिः साधनस्येत्येकः प्रकारः । अन्यथा साध्याभावेऽनुपपत्तिश्चति द्वितीयः प्रकारः । थयाऽग्निमानयं पर्वतस्तथैव धूमवत्वोपपत्तेः । अन्यथा धूमवत्वानुपपत्तेर्वा । एतावन्मात्रकृतः परार्थानुमानस्य भेदोन पारमार्थिक इति भेदपदन दर्शयति॥४॥
एतदेवाह । ॥ नानयोस्तात्पर्ये भेदः ॥ २-१-५॥
अनयोस्तथोपपत्त्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोस्तात्पर्य 'यत्परः शब्दः स शब्दार्थः' इत्येवं लक्षणे तत्परत्वे भेदो