SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ (६) चांगदेवस्तैः स्तम्भनपुरं नीत्वा दीक्षया संस्कृतः विक्रमसंवत्सरे ११५० मिते माघशुक्लचतुर्दश्यां रविसुतवारे । दीक्षितस्य तस्य सोमचन्द्रेत्यभिधानं बभूव । ततः श्रीरैवतावतारे श्रीनेमितीर्थे जाग्रतो नासाग्रन्यस्तचक्षुषः सोमचन्द्रस्य समाराधनात् देवी शारदा तुष्टा तवेहितं सेत्स्यतीति तस्मै वरमदात्। तेन वरेण सिद्धं तं सोमचन्द्रं शुभे मुहूर्ते विक्रमसंवत्सरे ११६६ मिते (१२०९) वैशाखे प्रभावकधुराधुर्यं सूरिपदे स्थापयामासुः श्रीगुरवः । तदा तस्य ' हेमचन्द्र' इति संज्ञा व्यधायि । ___अथ च श्रीहेमचन्द्राचायैर्विविधास्तत्तच्छास्त्रव्युत्पादका ग्रन्था निरमीयन्त यन्नामनिर्देशोऽनुपदमेव करिष्यते । तत्रान्यतमोऽयं प्रमाणमीमांसाख्यो निरुपमो न्यायग्रन्थः । जैनश्वेताम्बरसंप्रदायानुयायिनां सन्त्यन्येऽपि न्यायग्रन्थाः। तथाहि-१ श्रीसिद्धसेनदिवाकराणां वैक्रमप्रथमशताब्द्यां वर्तमानानां संमतितर्कन्यायावतारादयः । २ श्रीहरिभद्रमूरिणां वैक्रमषष्ठाव्यां वर्तमानानां अष्टकानि षड्दर्शनसमुच्चय, अनेकान्तजयपताकादयः ।३ श्रीदेवसुरिणां वादिदेवसूरीति नाम्ना विख्यातानां वैक्रमद्वादशशताब्यां वर्तमानानां प्रमाणनयतत्त्वालोकालङ्कारः स्वोपज्ञस्याद्वादरत्नाकराख्यबृहट्टीकासहितः । ततः ४ श्रीहेमचन्द्रसमयो वैक्रमद्वादशाब्दी । एतेषां वादिदेवसूरीणां च समानकालभवत्वं यतो वादिदेवसूरिभिः सह सिद्धराजसभायां । श्रीहेमचन्द्रसूरय आसन् दिगम्बराचार्यकुमुन्द्रचन्द्रशास्त्रार्थसमये ।५ ततः परं वाचकयशोविजयसूरीणां वैक्रमषोडशशताब्द्या वर्तमानानां द्वाविंशिकादयो ग्रन्थाः । यद्यप्येतत्कृता द्वात्रिंशिकाः स्वतन्त्र १ पूर्व गुरुश्चतुर्दशे वर्षे ११५९ मिते, ११६४ मिते वा सोमचन्द्रं पदाधिकारिणमकारयत् । ततो गुरुनिदेशेन कश्मीरा शारदाराधनबुध्या गतवतस्तृतीये प्रयाणके शून्ये कस्मिंश्चिद् देवालये निशीथे शारदामन्त्रं हृदि ध्यायतस्तस्य पुरस्ताच्छारदा प्रादूर्भूय वरमदात् तिरोभूता च । तथाहि-नानाविज्ञानरूपः शुचिरुचिरवचोरञ्जितानेकभूपः सद्विद्यायज्ञयूपो भवभवभयभित्पुण्यपानीयकूपः । आजन्मब्रह्मलीलाकलितकलतनो! संस्मृता त्वत्समापिमेषैष्यामीत्युदित्वा सपदि भगवती भारती सा तिरोऽभूत् ॥२१॥ चा. कृत कुमारपालचरिते प्रथमसर्गे चतुर्थवर्गे।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy