________________
सूत्र १-१-८
[ प्रमाण
कालभाविनो व्यवहारजननसमर्थाद्विकल्पात् तस्य प्रामाण्ये याचितकमण्डनन्यायः । वरं च व्यवहार हेतोर्विकल्पस्यैव प्रामाण्यमभ्युपगन्तुम् । एवं हि परम्परा परिश्रमः परिहृतो भवति । विकल्पस्य चाप्रामाण्ये कथं तन्निमित्तो. व्यवहारोऽविसंवादी दृष्टविकल्पयोरर्थयोरेकीकरणेन तैमिरिकज्ञानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं प्रामाण्यस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८ ॥
१२
प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं वक्तुकामो विभागमन्तरेण तद्वचनस्याशक्यत्वाद्विभागप्रतिपादनार्थमाह
॥ प्रमाणं द्विधा ॥ १-१-९॥
सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमितिन नंदा परासृष्टम् । किन्तु साक्षादेवोक्तं प्रमाणमिति । द्विधा द्विप्रकारमेव विभागस्यावधारणफलत्वात् । तेन प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः । प्रत्यक्षानुमानागमाः प्रमाणमिति वैशेषिकाः। तान्येवेति साङ्ख्याः। सहोपमानेन चत्वारीति नैयायिकाः । सहार्थापत्त्या पश्चेतिः प्राभाकराः । सहाभावेन षडिति भाट्टाः । इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः । तत्प्रतिक्षेपश्च वक्ष्यते ।। ९ ।।
तर्हि प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः प्रत्यक्षमनुमानं चेत्युतान्यथेत्याह
१ अस्य न्यायस्य स्वरूपम् । केनचिदकिञ्चनेन याचित्वा परमण्डनानि परगृहे विवाहादिसम्पादनार्थं गम्यते परं न तत् तस्य शोभायै पर्याप्तम् ।
२ तच्छब्देन ।
३ मीमांसकेषु मतत्रयम् १ प्राभाकारं २ भा ३ मुरारिमतञ्च ।
४ अभावः - अनुपलब्धिः ।
५ १-१-१०, १-१-११, १ - १ - १२ सूत्रेषु ।