________________
१३
मीमांसा ]
सूत्र १-१-११ ॥प्रत्यक्षं च परोक्षं च ॥ १-१-१०॥ अश्नुते अक्ष्णाति वा व्यामोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवः । अश्नुते विषयमित्यक्षमिन्द्रियं च । प्रतिः प्रतिगतार्थः । अक्षं प्रतिगतं तदाश्रितम् । अक्षाणि चेन्द्रियाणि तानि प्रतिगतमिन्द्रियाण्याश्रित्योजिहीते यज्ज्ञानं तत्प्रत्यक्षं वक्ष्यमाणलक्षणम् । अक्षेभ्यः परतो वर्तत इति परेणन्द्रियादिना चोक्ष्यत इति परोक्षं वक्ष्यमाणलक्षणमेव । चकारः स्वविषये द्वयोस्तुल्यबलत्वख्यापनार्थः । तेन यदाहुः सकलप्रमाणज्येष्ठं प्रत्यक्षमिति तदपास्तम् । प्रत्यक्षमितिपूर्वकत्वादितरप्रमाणानां तस्य ज्येष्ठतेति चेत् । न । प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वोपलब्धेः। लिङ्गादाप्तोपदेशाद्वा वन्ह्यादिकमवगम्य प्रवृत्तस्य तद्विषयप्रत्यक्षोत्पत्तेः॥१०॥
न प्रत्यक्षादन्यत्प्रमाणमिति लौकायतिकाः । तत्राह॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः
. प्रमाणाप्रमाणविभागस्य परबुद्धेरतीन्द्रियार्थनिषेधस्य च सिद्धिर्नानुमानादिप्रमाणं विना । चार्वाको हि काश्चिज्ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणेतरते व्यवस्थापयेत् । न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्यापामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न चायं स्वप्रतीतिगोचराणामाप ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्था१ अशौटि व्याप्तौ ( है. धा. पा. ५-२९)। २ अक्षौ व्याप्तौ च ( है. धा. पा. १-५७०)। ३ लोकायतिकाः-चार्वाकाः। ---