SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूत्र २-१-१८ ८० [ प्रमाण चेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं तरुषु बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दिग्धासिद्धोऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ॥ १८ ॥ नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभासाः कैश्विदिष्यन्ते ते कस्मान्नोक्ता इत्याह ॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ २-१ -१९ ॥ एष्वेव वादिप्रतिवाद्युभयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाहियन्ते । विशेष्यासिद्धो यथाऽनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वात् । विशेषणासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वे सति सामान्यविशेषवत्त्वात् । भागासिद्धो यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । आश्रयासिद्धो यथाऽस्ति प्रधानं विश्व परिणामित्वात् । आश्रयैकदेशासिद्धो यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा नित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यर्थविशेषणासिद्धे यथाऽनित्यः शब्दः सामान्यवत्त्वे सति कृतकत्वात् । सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिल: पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिल: सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा यदान्यतरवाद्यसिद्धत्वेन विवक्ष्यन्ते तदा वाद्यसिद्धाः प्रतिवाद्यसिद्धावाद्य वा भवन्ति, यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते तदोभयासिद्धा भवन्ति ॥ १९॥ 1 विरुद्धस्य लक्षणमाह । विपरीतनियमाऽन्यथैवोपपद्यमानो विरुद्धः । २-१-२०। विपरीतो यथोक्ताद्विपर्यस्तो नियमोऽविनाभावो यस्य स तथा
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy