SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॐ नमः सर्वज्ञाय कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता खोपज्ञवृत्तिसहिता प्रमाणमीमांसा अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । नमोऽर्हते कृपाक्लप्तधर्मतीर्थाय तायिने ॥१॥ बोधबीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् । जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते॥२॥ ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व - कानि किमीयानि वा तान्यासन्निति । अत्यल्पमिदमन्वयुङ्क्तथाः। पोणिनिपिङ्गलकर्णादाक्षपादादिभ्योऽपि पूर्वे कानिं किमी * तायड् संतानपालनयोरिति ( है. धा. पा. १-८०६) धातो रूपम् । पालकायेत्यर्थः। १ बोधो ज्ञानम् । २ अष्टाध्यायीव्याकरणकारको दाक्षीपुत्रो मुनिः पाणिनिः । तेनैव प्राकृतलक्षणनामकं प्राकृतव्याकरणमपि रचितम् । 'यदाह पाणिनिः स्वप्राकृतलक्षणे "व्यत्ययोऽप्यासाम्"। इति। सूर्यप्रशप्तिटीकायां तथा पञ्चसंग्रहटकिायामपि 'यदाह पाणिनिः प्राकृतलक्षणे-तृतीयायें सप्तमी यथा 'तिसु तेसु ' अलंकिया पुहई' इति । मलयगिर्याचार्येण निरदोश । ३ छन्दःसूत्राणां प्रणेता पिङ्गलो मुनिः । ४ कणमत्तीति कणादः । तेन प्रणीत कणाददर्शनम् । अयमेवौलूक्यः । उलूकस्यधैरपत्यमौलूक्यः । अस्य दर्शनस्यौलूक्यदर्शनमिति नामे । अयं कणादो दशाध्यायात्मकदर्शनस्य प्रणेता ।अत्र (वैशेषिक ) मते पदार्थाः सप्त । ५ षोडशपदार्थवादिना (“ प्रमाणप्रेमेयसंशयप्रयोर्जेनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवैदिजल्पवितण्डाहेत्वाभासन्छलजातिीनग्रंहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः" । इति ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy